Click on words to see what they mean.

सूत उवाच ।एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः ।आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ।ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ॥ १ ॥
पुरोहितमथाहूय ऋत्विजं वसुधाधिपः ।अब्रवीद्वाक्यसंपन्नः संपदर्थकरं वचः ॥ २ ॥
यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् ।प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ॥ ३ ॥
अपि तत्कर्म विदितं भवतां येन पन्नगम् ।तक्षकं संप्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ॥ ४ ॥
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना ।तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ॥ ५ ॥
ऋत्विज ऊचुः ।अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् ।सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ॥ ६ ॥
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप ।इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ॥ ७ ॥
सूत उवाच ।एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् ।हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ॥ ८ ॥
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा ।आहरिष्यामि तत्सत्रं संभाराः संभ्रियन्तु मे ॥ ९ ॥
ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम ।देशं तं मापयामासुर्यज्ञायतनकारणात् ।यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ॥ १० ॥
ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् ।प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ॥ ११ ॥
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् ।राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ॥ १२ ॥
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति ।निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ॥ १३ ॥
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् ।स्थपतिर्बुद्धिसंपन्नो वास्तुविद्याविशारदः ॥ १४ ॥
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा ।यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ।ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ॥ १५ ॥
एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् ।क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ॥ १६ ॥
ततः कर्म प्रववृते सर्पसत्रे विधानतः ।पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ॥ १७ ॥
परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः ।जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥ १८ ॥
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते ।सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥ १९ ॥
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने ।विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ॥ २० ॥
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे ।पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥ २१ ॥
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा ।रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ॥ २२ ॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ।अवशानि विनष्टानि पन्नगानां द्विजोत्तम ॥ २३ ॥
इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे ।मत्ता इव च मातङ्गा महाकाया महाबलाः ॥ २४ ॥
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः ।घोराश्च परिघप्रख्या दन्दशूका महाबलाः ।प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥ २५ ॥
« »