Click on words to see what they mean.

शौनक उवाच ।सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः ।जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ॥ १ ॥
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे ।विषादजननेऽत्यर्थं पन्नगानां महाभये ॥ २ ॥
सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति ।सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ॥ ३ ॥
सूत उवाच ।हन्त ते कथयिष्यामि नामानीह मनीषिणाम् ।ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ॥ ४ ॥
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः ।च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ॥ ५ ॥
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः ।ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ॥ ६ ॥
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् ।उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ॥ ७ ॥
असितो देवलश्चैव नारदः पर्वतस्तथा ।आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ॥ ८ ॥
वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् ।कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ॥ ९ ॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ॥ १० ॥
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ ।अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ॥ ११ ॥
वसामेदोवहाः कुल्या नागानां संप्रवर्तिताः ।ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥ १२ ॥
पततां चैव नागानां धिष्ठितानां तथाम्बरे ।अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ॥ १३ ॥
तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् ।गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ॥ १४ ॥
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः ।अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ॥ १५ ॥
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक ।भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथंचन ॥ १६ ॥
प्रसादितो मया पूर्वं तवार्थाय पितामहः ।तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ॥ १७ ॥
एवमाश्वासितस्तेन ततः स भुजगोत्तमः ।उवास भवने तत्र शक्रस्य मुदितः सुखी ॥ १८ ॥
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः ।अल्पशेषपरीवारो वासुकिः पर्यतप्यत ॥ १९ ॥
कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् ।स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ॥ २० ॥
दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च ।सीदामीव च संमोहाद्घूर्णतीव च मे मनः ॥ २१ ॥
दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च ।पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ॥ २२ ॥
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया ।व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ॥ २३ ॥
अयं स कालः संप्राप्तो यदर्थमसि मे स्वसः ।जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ॥ २४ ॥
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे ।प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ॥ २५ ॥
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् ।ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ॥ २६ ॥
« »