Click on words to see what they mean.

शौनक उवाच ।कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज ।तपसा वालखिल्यानां संभूतो गरुडः कथम् ॥ १ ॥
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः ।अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ॥ २ ॥
कथं च कामचारी स कामवीर्यश्च खेचरः ।एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥ ३ ॥
सूत उवाच ।विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज ॥ ४ ॥
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः ।साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥ ५ ॥
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥ ६ ॥
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् ।समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥ ७ ॥
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः ।पलाशवृन्तिकामेकां सहितान्वहतः पथि ॥ ८ ॥
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके ॥ ९ ॥
तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः ।अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ॥ १० ॥
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।आरेभिरे महत्कर्म तदा शक्रभयंकरम् ॥ ११ ॥
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥ १२ ॥
कामवीर्यः कामगमो देवराजभयप्रदः ।इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥ १३ ॥
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः ।तपसो नः फलेनाद्य दारुणः संभवत्विति ॥ १४ ॥
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः ।जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥ १५ ॥
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥ १६ ॥
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥ १७ ॥
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥ १८ ॥
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।भवतां च न मिथ्यायं संकल्पो मे चिकीर्षितः ॥ १९ ॥
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।प्रसादः क्रियतां चैव देवराजस्य याचतः ॥ २० ॥
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः ।प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् ॥ २१ ॥
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥ २२ ॥
तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् ।तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥ २३ ॥
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥ २४ ॥
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥ २५ ॥
आरम्भः सफलो देवि भवितायं तवेप्सितः ।जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥ २६ ॥
तपसा वालखिल्यानां मम संकल्पजौ तथा ।भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ॥ २७ ॥
उवाच चैनां भगवान्मारीचः पुनरेव ह ।धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥ २८ ॥
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति ।लोकसंभावितो वीरः कामवीर्यो विहंगमः ॥ २९ ॥
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ।त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ॥ ३० ॥
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर ।व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि ॥ ३१ ॥
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ॥ ३२ ॥
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।विनता चापि सिद्धार्था बभूव मुदिता तदा ॥ ३३ ॥
जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ॥ ३४ ॥
पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत ।तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥ ३५ ॥
« »