Click on words to see what they mean.

सूत उवाच ।स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥ १ ॥
तां भग्नां स महाशाखां स्मयन्समवलोकयन् ।अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥ २ ॥
स तद्विनाशसंत्रासादनुपत्य खगाधिपः ।शाखामास्येन जग्राह तेषामेवान्ववेक्षया ।शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥ ३ ॥
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः ।दयार्थं वालखिल्यानां न च स्थानमविन्दत ॥ ४ ॥
स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् ।ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ॥ ५ ॥
ददर्श तं पिता चापि दिव्यरूपं विहंगमम् ।तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ॥ ६ ॥
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् ।अचिन्त्यमनभिज्ञेयं सर्वभूतभयंकरम् ॥ ७ ॥
मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् ।अप्रधृष्यमजेयं च देवदानवराक्षसैः ॥ ८ ॥
भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् ।लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ॥ ९ ॥
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा ।विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् ॥ १० ॥
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् ।मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥ ११ ॥
प्रसादयामास स तान्कश्यपः पुत्रकारणात् ।वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥ १२ ॥
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥ १३ ॥
एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥ १४ ॥
ततस्तेष्वपयातेषु पितरं विनतात्मजः ।शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥ १५ ॥
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् ।वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥ १६ ॥
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् ।अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥ १७ ॥
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः ।जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥ १८ ॥
न तां वध्रः परिणहेच्छतचर्मा महानणुः ।शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥ १९ ॥
ततः स शतसाहस्रं योजनान्तरमागतः ।कालेन नातिमहता गरुडः पततां वरः ॥ २० ॥
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः ।अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥ २१ ॥
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् ।मुमोच पुष्पवर्षं च समागलितपादपः ॥ २२ ॥
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥ २३ ॥
शाखिनो बहवश्चापि शाखयाभिहतास्तया ।काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥ २४ ॥
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः ।व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥ २५ ॥
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥ २६ ॥
ततः पर्वतकूटाग्रादुत्पपात मनोजवः ।प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥ २७ ॥
इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् ।सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ॥ २८ ॥
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ।साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥ २९ ॥
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च ।ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥ ३० ॥
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् ।देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥ ३१ ॥
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि ।उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ।रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥ ३२ ॥
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः ।उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥ ३३ ॥
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः ।न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥ ३४ ॥
बृहस्पतिरुवाच ।तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो ।तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥ ३५ ॥
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥ ३६ ॥
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः ।सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥ ३७ ॥
सूत उवाच ।श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥ ३८ ॥
युष्मान्संबोधयाम्येष यथा स न हरेद्बलात् ।अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥ ३९ ॥
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥ ४० ॥
धारयन्तो महार्हाणि कवचानि मनस्विनः ।काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ॥ ४१ ॥
विविधानि च शस्त्राणि घोररूपाण्यनेकशः ।शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ॥ ४२ ॥
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः ।चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ॥ ४३ ॥
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् ।स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥ ४४ ॥
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥ ४५ ॥
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य ।असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः ॥ ४६ ॥
इति समरवरं सुरास्थितं परिघसहस्रशतैः समाकुलम् ।विगलितमिव चाम्बरान्तरे तपनमरीचिविभासितं बभौ ॥ ४७ ॥
« »