Click on words to see what they mean.

सूत उवाच ।ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे ।गरुत्मान्पक्षिराट्तूर्णं संप्राप्तो विबुधान्प्रति ॥ १ ॥
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः ।परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ॥ २ ॥
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः ।भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ॥ ३ ॥
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः ।मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥ ४ ॥
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः ।कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥ ५ ॥
तेनावकीर्णा रजसा देवा मोहमुपागमन् ।न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ॥ ६ ॥
एवं संलोडयामास गरुडस्त्रिदिवालयम् ।पक्षतुण्डप्रहारैश्च देवान्स विददार ह ॥ ७ ॥
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् ।विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ॥ ८ ॥
अथ वायुरपोवाह तद्रजस्तरसा बली ।ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥ ९ ॥
ननाद चोच्चैर्बलवान्महामेघरवः खगः ।वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ।उत्पपात महावीर्यः पक्षिराट्परवीरहा ॥ १० ॥
तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् ।वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ॥ ११ ॥
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः ।क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ॥ १२ ॥
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः ।कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ॥ १३ ॥
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् ।पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ॥ १४ ॥
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः ।नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥ १५ ॥
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् ।प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥ १६ ॥
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् ।मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ॥ १७ ॥
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा ।क्रथनेन च शूरेण तपनेन च खेचरः ॥ १८ ॥
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा ।प्ररुजेन च संयुद्धं चकार प्रलिहेन च ॥ १९ ॥
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः ।युगान्तकाले संक्रुद्धः पिनाकीव महाबलः ॥ २० ॥
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः ।रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥ २१ ॥
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् ।अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥ २२ ॥
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् ।दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ॥ २३ ॥
ततो नवत्या नवतीर्मुखानां कृत्वा तरस्वी गरुडो महात्मा ।नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन ॥ २४ ॥
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः ।ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥ २५ ॥
« »