Click on words to see what they mean.

वैशंपायन उवाच ।तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् ।शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ॥ १ ॥
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः ।छादयामास तद्वर्षमपकृष्य ततो वनात् ॥ २ ॥
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः ।संछाद्यमाने खगमैरस्यता सव्यसाचिना ॥ ३ ॥
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः ।दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ॥ ४ ॥
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली ।स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ॥ ५ ॥
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः ।मोक्षयामास तं माता निगीर्य भुजगात्मजा ॥ ६ ॥
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ।ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥ ७ ॥
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः ।शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ॥ ८ ॥
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् ।मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ॥ ९ ॥
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः ।द्विधा त्रिधा च चिच्छेद खगतानेव भारत ॥ १० ॥
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् ।पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ॥ ११ ॥
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः ।योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन् ॥ १२ ॥
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् ।स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ॥ १३ ॥
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् ।वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ॥ १४ ॥
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् ।वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ॥ १५ ॥
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् ।जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ॥ १६ ॥
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः ।सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ॥ १७ ॥
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः ।प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ॥ १८ ॥
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः ।समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ॥ १९ ॥
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा ।प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ ॥ २० ॥
तथैवोरगसंघाताः पाण्डवस्य समीपतः ।उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ॥ २१ ॥
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् ।विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ॥ २२ ॥
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः ।उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ॥ २३ ॥
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः ।कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ॥ २४ ॥
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् ।प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ॥ २५ ॥
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा ।दैत्यदानवसंघानां चकार कदनं महत् ॥ २६ ॥
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा ।वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ॥ २७ ॥
ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः ।पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ॥ २८ ॥
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् ।हतावेताविति प्राह सुरानसुरसूदनः ॥ २९ ॥
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् ।जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ॥ ३० ॥
कालदण्डं यमो राजा शिबिकां च धनेश्वरः ।पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ॥ ३१ ॥
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि ।जगृहे च धनुर्धाता मुसलं च जयस्तथा ॥ ३२ ॥
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः ।अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ॥ ३३ ॥
प्रगृह्य परिघं घोरं विचचारार्यमा अपि ।मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ॥ ३४ ॥
पूषा भगश्च संक्रुद्धः सविता च विशां पते ।आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ॥ ३५ ॥
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः ।विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ॥ ३६ ॥
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ ।कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ॥ ३७ ॥
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे ।युगान्तसमरूपाणि भूतोत्सादाय भारत ॥ ३८ ॥
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ ।अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥ ३९ ॥
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः ।न्यवारयेतां संक्रुद्धौ बाणैर्वज्रोपमैस्तदा ॥ ४० ॥
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः ।भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ॥ ४१ ॥
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च ।आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ॥ ४२ ॥
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे ।बभूव परमप्रीतो भूयश्चैतावयोधयत् ॥ ४३ ॥
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः ।भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ।तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ॥ ४४ ॥
विफलं क्रियमाणं तत्संप्रेक्ष्य च शतक्रतुः ।भूयः संवर्धयामास तद्वर्षं देवराडथ ॥ ४५ ॥
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः ।विलयं गमयामास हर्षयन्पितरं तदा ॥ ४६ ॥
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् ।सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ॥ ४७ ॥
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः ।बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ॥ ४८ ॥
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ ।सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ॥ ४९ ॥
तेनावाक्पतता दावे शैलेन महता भृशम् ।भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ॥ ५० ॥
« »