Click on words to see what they mean.

वैशंपायन उवाच ।तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ ।दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ॥ १ ॥
यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः ।पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ॥ २ ॥
छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् ।आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ॥ ३ ॥
खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः ।उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ॥ ४ ॥
दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे ।स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ॥ ५ ॥
समालिङ्ग्य सुतानन्ये पितॄन्मातॄंस्तथापरे ।त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ॥ ६ ॥
विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः ।तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ॥ ७ ॥
दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले ।तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ॥ ८ ॥
जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत ।गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥ ९ ॥
शरीरैः संप्रदीप्तैश्च देहवन्त इवाग्नयः ।अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसंक्षये ॥ १० ॥
तांस्तथोत्पततः पार्थः शरैः संछिद्य खण्डशः ।दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ॥ ११ ॥
ते शराचितसर्वाङ्गा विनदन्तो महारवान् ।ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ॥ १२ ॥
शरैरभ्याहतानां च दह्यतां च वनौकसाम् ।विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ॥ १३ ॥
वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः ।जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ॥ १४ ॥
ततो जग्मुर्महात्मानः सर्व एव दिवौकसः ।शरणं देवराजानं सहस्राक्षं पुरंदरम् ॥ १५ ॥
देवा ऊचुः ।किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना ।कच्चिन्न संक्षयः प्राप्तो लोकानाममरेश्वर ॥ १६ ॥
वैशंपायन उवाच ।तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च ।खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ॥ १७ ॥
महता मेघजालेन नानारूपेण वज्रभृत् ।आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ॥ १८ ॥
ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः ।अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ॥ १९ ॥
असंप्राप्तास्तु ता धारास्तेजसा जातवेदसः ।ख एव समशुष्यन्त न काश्चित्पावकं गताः ॥ २० ॥
ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा ।पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ॥ २१ ॥
अर्चिर्धाराभिसंबद्धं धूमविद्युत्समाकुलम् ।बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ॥ २२ ॥
« »