Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः ।चिन्तयामास वरुणं लोकपालं दिदृक्षया ।आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥ १ ॥
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ।तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ।चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥ २ ॥
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते ।तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥ ३ ॥
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति ।चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ।ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥ ४ ॥
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् ।सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ।सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥ ५ ॥
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥ ६ ॥
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥ ७ ॥
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् ।उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ।पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥ ८ ॥
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः ।भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥ ९ ॥
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः ।प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥ १० ॥
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः ।नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥ ११ ॥
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा ।तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥ १२ ॥
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः ।विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥ १३ ॥
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च ।नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति ॥ १४ ॥
स तं नानापताकाभिः शोभितं रथमुत्तमम् ।प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥ १५ ॥
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।आरुरोह रथं पार्थो विमानं सुकृती यथा ॥ १६ ॥
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा ।गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः ॥ १७ ॥
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् ।जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥ १८ ॥
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह ।येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥ १९ ॥
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी ।बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥ २० ॥
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः ।आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥ २१ ॥
अब्रवीत्पावकश्चैनमेतेन मधुसूदन ।अमानुषानपि रणे विजेष्यसि न संशयः ॥ २२ ॥
अनेन त्वं मनुष्याणां देवानामपि चाहवे ।रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ।भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥ २३ ॥
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु ।हत्वाप्रतिहतं संख्ये पाणिमेष्यति ते पुनः ॥ २४ ॥
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् ।दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥ २५ ॥
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ ।कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि ॥ २६ ॥
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः ।किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥ २७ ॥
अर्जुन उवाच ।चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् ।त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥ २८ ॥
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी ।अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥ २९ ॥
सर्वतः परिवार्यैनं दावेन महता प्रभो ।कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥ ३० ॥
वैशंपायन उवाच ।एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च ।तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥ ३१ ॥
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा ।ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥ ३२ ॥
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ ।मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥ ३३ ॥
दह्यतस्तस्य विबभौ रूपं दावस्य भारत ।मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥ ३४ ॥
« »