Click on words to see what they mean.

वैशंपायन उवाच ।ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः ।अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥ १ ॥
वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः ।आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ॥ २ ॥
अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।कारंधमं प्रसन्नं च हयमेधफलं च यत् ।भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥ ३ ॥
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः ।दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ॥ ४ ॥
तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः ।तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ॥ ५ ॥
तापसा ऊचुः ।ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् ।अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ॥ ६ ॥
वैशंपायन उवाच ।तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः ।जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ॥ ७ ॥
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् ।विगाह्य तरसा शूरः स्नानं चक्रे परंतपः ॥ ८ ॥
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् ।निजग्राह जले ग्राहः कुन्तीपुत्रं धनंजयम् ॥ ९ ॥
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥ १० ॥
उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना ।बभूव नारी कल्याणी सर्वाभरणभूषिता ।दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ॥ ११ ॥
तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनंजयः ।तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥ १२ ॥
का वै त्वमसि कल्याणि कुतो वासि जलेचरी ।किमर्थं च महत्पापमिदं कृतवती पुरा ॥ १३ ॥
नार्युवाच ।अप्सरास्मि महाबाहो देवारण्यविचारिणी ।इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥ १४ ॥
मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः ।ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥ १५ ॥
ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् ।रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥ १६ ॥
तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् ।आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥ १७ ॥
तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् ।अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥ १८ ॥
अहं च सौरभेयी च समीची बुद्बुदा लता ।यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥ १९ ॥
गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् ।स च नास्मासु कृतवान्मनो वीर कथंचन ।नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥ २० ॥
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥ २१ ॥
« »