Click on words to see what they mean.

वर्गोवाच ।ततो वयं प्रव्यथिताः सर्वा भरतसत्तम ।आयाम शरणं विप्रं तं तपोधनमच्युतम् ॥ १ ॥
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः ।अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ॥ २ ॥
एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन ।यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ॥ ३ ॥
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः ।तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ॥ ४ ॥
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते ।सत्यो भवतु कल्याण एष वादो मनीषिणाम् ॥ ५ ॥
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् ।शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ॥ ६ ॥
वैशंपायन उवाच ।एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् ।प्रसादं कृतवान्वीर रविसोमसमप्रभः ॥ ७ ॥
ब्राह्मण उवाच ।शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् ।परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ॥ ८ ॥
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले ।उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ॥ ९ ॥
तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ ।अनृतं नोक्तपूर्वं मे हसतापि कदाचन ॥ १० ॥
तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह ।नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ।पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ॥ ११ ॥
वर्गोवाच ।ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् ।अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ॥ १२ ॥
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् ।समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ॥ १३ ॥
ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत ।दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ॥ १४ ॥
सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् ।अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ॥ १५ ॥
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् ।श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ॥ १६ ॥
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै ।पुण्यानि रमणीयानि तानि गच्छत माचिरम् ॥ १७ ॥
तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनंजयः ।मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ॥ १८ ॥
तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः ।तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ॥ १९ ॥
एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः ।कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ॥ २० ॥
वैशंपायन उवाच ।ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते ।तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ॥ २१ ॥
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् ।तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ॥ २२ ॥
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः ।चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ॥ २३ ॥
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् ।तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ॥ २४ ॥
« »