Click on words to see what they mean.

वैशंपायन उवाच ।कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत ।प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥ १ ॥
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥ २ ॥
प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च ।निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥ ३ ॥
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥ ४ ॥
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥ ५ ॥
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥ ६ ॥
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् ।महानदीं गयां चैव गङ्गामपि च भारत ॥ ७ ॥
एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् ।आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ॥ ८ ॥
अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् ।जगाम तानि सर्वाणि तीर्थान्यायतनानि च ।दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥ ९ ॥
कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः ।अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥ १० ॥
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः ।सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥ ११ ॥
स कलिङ्गानतिक्रम्य देशानायतनानि च ।धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥ १२ ॥
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥ १३ ॥
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ।मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥ १४ ॥
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ।तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥ १५ ॥
दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् ।अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ।तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥ १६ ॥
राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह ।अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥ १७ ॥
उग्रेण तपसा तेन प्रणिपातेन शंकरः ।ईश्वरस्तोषितस्तेन महादेव उमापतिः ॥ १८ ॥
स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले ।एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥ १९ ॥
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे ।कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥ २० ॥
पुत्रो ममेयमिति मे भावना पुरुषोत्तम ।पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ ॥ २१ ॥
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥ २२ ॥
स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च ।उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥ २३ ॥
« »