Click on words to see what they mean.

द्रुपद उवाच ।एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ।ममापि परमो हर्षः संबन्धेऽस्मिन्कृते विभो ॥ १ ॥
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् ।न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥ २ ॥
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः ।भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥ ३ ॥
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः ।एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥ ४ ॥
युधिष्ठिर उवाच ।परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः ।यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥ ५ ॥
वैशंपायन उवाच ।ततोऽब्रवीद्वासुदेवो गमनं मम रोचते ।यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥ ६ ॥
द्रुपद उवाच ।यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः ।प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥ ७ ॥
यथैव हि महाभागाः कौन्तेया मम सांप्रतम् ।तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥ ८ ॥
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः ।यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥ ९ ॥
वैशंपायन उवाच ।ततस्ते समनुज्ञाता द्रुपदेन महात्मना ।पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥ १० ॥
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् ।सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ॥ ११ ॥
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः ।प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥ १२ ॥
विकर्णं च महेष्वासं चित्रसेनं च भारत ।द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥ १३ ॥
तैस्ते परिवृता वीराः शोभमाना महारथाः ।नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥ १४ ॥
कौतूहलेन नगरं दीर्यमाणमिवाभवत् ।यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ॥ १५ ॥
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः ।उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः ॥ १६ ॥
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् ।यो नः स्वानिव दायादान्धर्मेण परिरक्षति ॥ १७ ॥
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः ।आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ॥ १८ ॥
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् ।यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥ १९ ॥
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः ।तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥ २० ॥
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः ।अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥ २१ ॥
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते ।समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥ २२ ॥
विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः ।आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च ॥ २३ ॥
धृतराष्ट्र उवाच ।भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम ।पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥ २४ ॥
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् ।संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ।अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविश ॥ २५ ॥
वैशंपायन उवाच ।प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च ।प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ।अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन् ॥ २६ ॥
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः ।मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥ २७ ॥
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः ।नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥ २८ ॥
सागरप्रतिरूपाभिः परिखाभिरलंकृतम् ।प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता ॥ २९ ॥
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च ।शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ ३० ॥
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः ।गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥ ३१ ॥
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः ।शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ।तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥ ३२ ॥
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् ।आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ॥ ३३ ॥
सुविभक्तमहारथ्यं देवताबाधवर्जितम् ।विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥ ३४ ॥
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत ।मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ॥ ३५ ॥
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् ।शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम् ॥ ३६ ॥
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः ।निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥ ३७ ॥
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः ।सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥ ३८ ॥
उद्यानानि च रम्याणि नगरस्य समन्ततः ।आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ॥ ३९ ॥
पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा ।शालतालकदम्बैश्च बकुलैश्च सकेतकैः ॥ ४० ॥
मनोहरैः पुष्पितैश्च फलभारावनामितैः ।प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥ ४१ ॥
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः ।करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ॥ ४२ ॥
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् ।मत्तबर्हिणसंघुष्टं कोकिलैश्च सदामदैः ॥ ४३ ॥
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः ।मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ।वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥ ४४ ॥
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः ।हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥ ४५ ॥
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः ।तडागानि च रम्याणि बृहन्ति च महान्ति च ॥ ४६ ॥
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् ।पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥ ४७ ॥
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते ।पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥ ४८ ॥
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् ।शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥ ४९ ॥
तान्निवेश्य ततो वीरो रामेण सह केशवः ।ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥ ५० ॥
« »