Click on words to see what they mean.

धृतराष्ट्र उवाच ।भीष्मः शांतनवो विद्वान्द्रोणश्च भगवानृषिः ।हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ॥ १ ॥
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः ।तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥ २ ॥
यथैव मम पुत्राणामिदं राज्यं विधीयते ।तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ॥ ३ ॥
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् ।तया च देवरूपिण्या कृष्णया सह भारत ॥ ४ ॥
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा ।दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ॥ ५ ॥
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः ।दिष्ट्या मम परं दुःखमपनीतं महाद्युते ॥ ६ ॥
वैशंपायन उवाच ।ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् ।सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥ ७ ॥
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः ।द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ॥ ८ ॥
स चापि प्रतिजग्राह धर्मेण विदुरं ततः ।चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ॥ ९ ॥
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत ।स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ॥ १० ॥
तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् ।वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ॥ ११ ॥
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् ।प्रददौ चापि रत्नानि विविधानि वसूनि च ॥ १२ ॥
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते ।द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ॥ १३ ॥
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः ।द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥ १४ ॥
राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम ।धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ॥ १५ ॥
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः ।प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप ॥ १६ ॥
तथा भीष्मः शांतनवः कौरवैः सह सर्वशः ।कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ॥ १७ ॥
भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव ।समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ॥ १८ ॥
धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमीयिवान् ।कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ॥ १९ ॥
न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता ।यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह ॥ २० ॥
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् ।द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ॥ २१ ॥
विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः ।उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ॥ २२ ॥
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः ।द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ॥ २३ ॥
स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् ।गमनं सहदाराणामेतदागमनं मम ॥ २४ ॥
विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु ।ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ।आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ २५ ॥
« »