Click on words to see what they mean.

जनमेजय उवाच ।एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन ।अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ॥ १ ॥
सर्व एव महात्मानः पूर्वे मम पितामहाः ।द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥ २ ॥
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः ।वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥ ३ ॥
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन ।तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ॥ ४ ॥
वैशंपायन उवाच ।धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः ।रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः ॥ ५ ॥
प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः ।पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥ ६ ॥
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः ।मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ॥ ७ ॥
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः ।आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥ ८ ॥
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु ।नारदस्त्वथ देवर्षिराजगाम यदृच्छया ।आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ॥ ९ ॥
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि ।प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ॥ १० ॥
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् ।आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ॥ ११ ॥
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः ।प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ॥ १२ ॥
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता ।जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥ १३ ॥
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी ।कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ॥ १४ ॥
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः ।आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ।गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥ १५ ॥
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् ।विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥ १६ ॥
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी ।यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ॥ १७ ॥
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ ।आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥ १८ ॥
एकराज्यावेकगृहावेकशय्यासनाशनौ ।तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥ १९ ॥
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् ।यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥ २० ॥
युधिष्ठिर उवाच ।सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने ।उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥ २१ ॥
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा ।यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥ २२ ॥
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन ।श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ॥ २३ ॥
« »