Click on words to see what they mean.

वैशंपायन उवाच ।तस्मै दित्सति कन्यां तु ब्राह्मणाय महात्मने ।कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात् ॥ १ ॥
अस्मानयमतिक्रम्य तृणीकृत्य च संगतान् ।दातुमिच्छति विप्राय द्रौपदीं योषितां वराम् ॥ २ ॥
निहन्मैनं दुरात्मानं योऽयमस्मान्न मन्यते ।न ह्यर्हत्येष सत्कारं नापि वृद्धक्रमं गुणैः ॥ ३ ॥
हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम् ।अयं हि सर्वानाहूय सत्कृत्य च नराधिपान् ।गुणवद्भोजयित्वा च ततः पश्चाद्विनिन्दति ॥ ४ ॥
अस्मिन्राजसमावाये देवानामिव संनये ।किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान् ॥ ५ ॥
न च विप्रेष्वधीकारो विद्यते वरणं प्रति ।स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः ॥ ६ ॥
अथ वा यदि कन्येयं नेह कंचिद्बुभूषति ।अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः ॥ ७ ॥
ब्राह्मणो यदि वा बाल्याल्लोभाद्वा कृतवानिदम् ।विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन ॥ ८ ॥
ब्राह्मणार्थं हि नो राज्यं जीवितं च वसूनि च ।पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम् ॥ ९ ॥
अवमानभयादेतत्स्वधर्मस्य च रक्षणात् ।स्वयंवराणां चान्येषां मा भूदेवंविधा गतिः ॥ १० ॥
इत्युक्त्वा राजशार्दूला हृष्टाः परिघबाहवः ।द्रुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन् ॥ ११ ॥
तान्गृहीतशरावापान्क्रुद्धानापततो नृपान् ।द्रुपदो वीक्ष्य संत्रासाद्ब्राह्मणाञ्शरणं गतः ॥ १२ ॥
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान् ।पाण्डुपुत्रौ महावीर्यौ प्रतीयतुररिंदमौ ॥ १३ ॥
ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धतलाङ्गुलित्राः ।जिघांसमानाः कुरुराजपुत्रावमर्षयन्तोऽर्जुनभीमसेनौ ॥ १४ ॥
ततस्तु भीमोऽद्भुतवीर्यकर्मा महाबलो वज्रसमानवीर्यः ।उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः ॥ १५ ॥
तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम् ।तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः ॥ १६ ॥
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धेर्जिष्णोः सहभ्रातुरचिन्त्यकर्मा ।दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे ॥ १७ ॥
य एष मत्तर्षभतुल्यगामी महद्धनुः कर्षति तालमात्रम् ।एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि संकर्षण वासुदेवः ॥ १८ ॥
य एष वृक्षं तरसावरुज्य राज्ञां विकारे सहसा निवृत्तः ।वृकोदरो नान्य इहैतदद्य कर्तुं समर्थो भुवि मर्त्यधर्मा ॥ १९ ॥
योऽसौ पुरस्तात्कमलायताक्षस्तनुर्महासिंहगतिर्विनीतः ।गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽच्युत धर्मराजः ॥ २० ॥
यौ तौ कुमाराविव कार्त्तिकेयौ द्वावश्विनेयाविति मे प्रतर्कः ।मुक्ता हि तस्माज्जतुवेश्मदाहान्मया श्रुताः पाण्डुसुताः पृथा च ॥ २१ ॥
तमब्रवीन्निर्मलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः ।प्रीतोऽस्मि दिष्ट्या हि पितृष्वसा नः पृथा विमुक्ता सह कौरवाग्र्यैः ॥ २२ ॥
« »