Click on words to see what they mean.

वैशंपायन उवाच ।अजिनानि विधुन्वन्तः करकांश्च द्विजर्षभाः ।ऊचुस्तं भीर्न कर्तव्या वयं योत्स्यामहे परान् ॥ १ ॥
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव ।उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥ २ ॥
अहमेनानजिह्माग्रैः शतशो विकिरञ्शरैः ।वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव ॥ ३ ॥
इति तद्धनुरादाय शुल्कावाप्तं महारथः ।भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः ॥ ४ ॥
ततः कर्णमुखान्क्रुद्धान्क्षत्रियांस्तान्रुषोत्थितान् ।संपेततुरभीतौ तौ गजौ प्रतिगजानिव ॥ ५ ॥
ऊचुश्च वाचः परुषास्ते राजानो जिघांसवः ।आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः ॥ ६ ॥
ततो वैकर्तनः कर्णो जगामार्जुनमोजसा ।युद्धार्थी वाशिताहेतोर्गजः प्रतिगजं यथा ॥ ७ ॥
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली ।दुर्योधनादयस्त्वन्ये ब्राह्मणैः सह संगताः ।मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाहवे ॥ ८ ॥
ततोऽर्जुनः प्रत्यविध्यदापतन्तं त्रिभिः शरैः ।कर्णं वैकर्तनं धीमान्विकृष्य बलवद्धनुः ॥ ९ ॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम् ।विमुह्यमानो राधेयो यत्नात्तमनुधावति ॥ १० ॥
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ ।अयुध्येतां सुसंरब्धावन्योन्यविजयैषिणौ ॥ ११ ॥
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे ।इति शूरार्थवचनैराभाषेतां परस्परम् ॥ १२ ॥
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि ।ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत् ॥ १३ ॥
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा ।प्रतिहत्य ननादोच्चैः सैन्यास्तमभिपूजयन् ॥ १४ ॥
कर्ण उवाच ।तुष्यामि ते विप्रमुख्य भुजवीर्यस्य संयुगे ।अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥ १५ ॥
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम ।अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः ॥ १६ ॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः ।विप्ररूपं विधायेदं ततो मां प्रतियुध्यसे ॥ १७ ॥
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः ।पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः ॥ १८ ॥
वैशंपायन उवाच ।तमेवंवादिनं तत्र फल्गुनः प्रत्यभाषत ।नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान् ।ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः ॥ १९ ॥
ब्राह्मे पौरंदरे चास्त्रे निष्ठितो गुरुशासनात् ।स्थितोऽस्म्यद्य रणे जेतुं त्वां वीराविचलो भव ॥ २० ॥
एवमुक्तस्तु राधेयो युद्धात्कर्णो न्यवर्तत ।ब्राह्मं तेजस्तदाजय्यं मन्यमानो महारथः ॥ २१ ॥
युद्धं तूपेयतुस्तत्र राजञ्शल्यवृकोदरौ ।बलिनौ युगपन्मत्तौ स्पर्धया च बलेन च ॥ २२ ॥
अन्योन्यमाह्वयन्तौ तौ मत्ताविव महागजौ ।मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम् ।मुहूर्तं तौ तथान्योन्यं समरे पर्यकर्षताम् ॥ २३ ॥
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे ।न्यवधीद्बलिनां श्रेष्ठो जहसुर्ब्राह्मणास्ततः ॥ २४ ॥
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः ।यच्छल्यं पतितं भूमौ नाहनद्बलिनं बली ॥ २५ ॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते ।शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम् ॥ २६ ॥
ऊचुश्च सहितास्तत्र साध्विमे ब्राह्मणर्षभाः ।विज्ञायन्तां क्वजन्मानः क्वनिवासास्तथैव च ॥ २७ ॥
को हि राधासुतं कर्णं शक्तो योधयितुं रणे ।अन्यत्र रामाद्द्रोणाद्वा कृपाद्वापि शरद्वतः ॥ २८ ॥
कृष्णाद्वा देवकीपुत्रात्फल्गुनाद्वा परंतपात् ।को वा दुर्योधनं शक्तः प्रतियोधयितुं रणे ॥ २९ ॥
तथैव मद्रराजानं शल्यं बलवतां वरम् ।बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात् ॥ ३० ॥
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंयुतात् ।अथैनानुपलभ्येह पुनर्योत्स्यामहे वयम् ॥ ३१ ॥
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः ।निवारयामास महीपतींस्तान्धर्मेण लब्धेत्यनुनीय सर्वान् ॥ ३२ ॥
त एवं संनिवृत्तास्तु युद्धाद्युद्धविशारदाः ।यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥ ३३ ॥
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता ।इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः ॥ ३४ ॥
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः ।कृच्छ्रेण जग्मतुस्तत्र भीमसेनधनंजयौ ॥ ३५ ॥
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ ।कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥ ३६ ॥
तेषां माता बहुविधं विनाशं पर्यचिन्तयत् ।अनागच्छत्सु पुत्रेषु भैक्षकालेऽतिगच्छति ॥ ३७ ॥
धार्तराष्ट्रैर्हता न स्युर्विज्ञाय कुरुपुंगवाः ।मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः ॥ ३८ ॥
विपरीतं मतं जातं व्यासस्यापि महात्मनः ।इत्येवं चिन्तयामास सुतस्नेहान्विता पृथा ॥ ३९ ॥
महत्यथापराह्णे तु घनैः सूर्य इवावृतः ।ब्राह्मणैः प्राविशत्तत्र जिष्णुर्ब्रह्मपुरस्कृतः ॥ ४० ॥
« »