Click on words to see what they mean.

वैशंपायन उवाच ।यदा निवृत्ता राजानो धनुषः सज्यकर्मणि ।अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः ॥ १ ॥
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च ।दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम् ॥ २ ॥
केचिदासन्विमनसः केचिदासन्मुदा युताः ।आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः ॥ ३ ॥
यत्कर्णशल्यप्रमुखैः पार्थिवैर्लोकविश्रुतैः ।नानतं बलवद्भिर्हि धनुर्वेदपरायणैः ॥ ४ ॥
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा ।बटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः ॥ ५ ॥
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु ।कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते ॥ ६ ॥
यद्येष दर्पाद्धर्षाद्वा यदि वा ब्रह्मचापलात् ।प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत् ॥ ७ ॥
नावहास्या भविष्यामो न च लाघवमास्थिताः ।न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम् ॥ ८ ॥
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः ।पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव ॥ ९ ॥
संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते ।शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत् ॥ १० ॥
न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत् ।ब्राह्मणानामसाध्यं च त्रिषु संस्थानचारिषु ॥ ११ ॥
अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः ।दुर्बला हि बलीयांसो विप्रा हि ब्रह्मतेजसा ॥ १२ ॥
ब्राह्मणो नावमन्तव्यः सद्वासद्वा समाचरन् ।सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम् ॥ १३ ॥
एवं तेषां विलपतां विप्राणां विविधा गिरः ।अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः ॥ १४ ॥
स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत् ।प्रणम्य शिरसा हृष्टो जगृहे च परंतपः ॥ १५ ॥
सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्धसंख्यान् ।विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम् ॥ १६ ॥
ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः ।पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः ॥ १७ ॥
चेलावेधांस्ततश्चक्रुर्हाहाकारांश्च सर्वशः ।न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः ॥ १८ ॥
शताङ्गानि च तूर्याणि वादकाश्चाप्यवादयन् ।सूतमागधसंघाश्च अस्तुवंस्तत्र सुस्वनाः ॥ १९ ॥
तं दृष्ट्वा द्रुपदः प्रीतो बभूवारिनिषूदनः ।सहसैन्यश्च पार्थस्य साहाय्यार्थमियेष सः ॥ २० ॥
तस्मिंस्तु शब्दे महति प्रवृत्ते युधिष्ठिरो धर्मभृतां वरिष्ठः ।आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम् ॥ २१ ॥
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य ।आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती ॥ २२ ॥
स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः ।रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः ॥ २३ ॥
« »