Click on words to see what they mean.

गन्धर्व उवाच ।ततो दृष्ट्वाश्रमपदं रहितं तैः सुतैर्मुनिः ।निर्जगाम सुदुःखार्तः पुनरेवाश्रमात्ततः ॥ १ ॥
सोऽपश्यत्सरितं पूर्णां प्रावृट्काले नवाम्भसा ।वृक्षान्बहुविधान्पार्थ वहन्तीं तीरजान्बहून् ॥ २ ॥
अथ चिन्तां समापेदे पुनः पौरवनन्दन ।अम्भस्यस्या निमज्जेयमिति दुःखसमन्वितः ॥ ३ ॥
ततः पाशैस्तदात्मानं गाढं बद्ध्वा महामुनिः ।तस्या जले महानद्या निममज्ज सुदुःखितः ॥ ४ ॥
अथ छित्त्वा नदी पाशांस्तस्यारिबलमर्दन ।समस्थं तमृषिं कृत्वा विपाशं समवासृजत् ॥ ५ ॥
उत्ततार ततः पाशैर्विमुक्तः स महानृषिः ।विपाशेति च नामास्या नद्याश्चक्रे महानृषिः ॥ ६ ॥
शोके बुद्धिं ततश्चक्रे न चैकत्र व्यतिष्ठत ।सोऽगच्छत्पर्वतांश्चैव सरितश्च सरांसि च ॥ ७ ॥
ततः स पुनरेवर्षिर्नदीं हैमवतीं तदा ।चण्डग्राहवतीं दृष्ट्वा तस्याः स्रोतस्यवापतत् ॥ ८ ॥
सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा ।शतधा विद्रुता यस्माच्छतद्रुरिति विश्रुता ॥ ९ ॥
ततः स्थलगतं दृष्ट्वा तत्राप्यात्मानमात्मना ।मर्तुं न शक्यमित्युक्त्वा पुनरेवाश्रमं ययौ ॥ १० ॥
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखो व्रजन् ।अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम् ।पृष्ठतः परिपूर्णार्थैः षड्भिरङ्गैरलंकृतम् ॥ ११ ॥
अनुव्रजति को न्वेष मामित्येव च सोऽब्रवीत् ।अहं त्वदृश्यती नाम्ना तं स्नुषा प्रत्यभाषत ।शक्तेर्भार्या महाभाग तपोयुक्ता तपस्विनी ॥ १२ ॥
वसिष्ठ उवाच ।पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययनस्वनः ।पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः ॥ १३ ॥
अदृश्यन्त्युवाच ।अयं कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते ।समा द्वादश तस्येह वेदानभ्यसतो मुने ॥ १४ ॥
गन्धर्व उवाच ।एवमुक्तस्ततो हृष्टो वसिष्ठः श्रेष्ठभागृषिः ।अस्ति संतानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ॥ १५ ॥
ततः प्रतिनिवृत्तः स तया वध्वा सहानघ ।कल्माषपादमासीनं ददर्श विजने वने ॥ १६ ॥
स तु दृष्ट्वैव तं राजा क्रुद्ध उत्थाय भारत ।आविष्टो रक्षसोग्रेण इयेषात्तुं ततः स्म तम् ॥ १७ ॥
अदृश्यन्ती तु तं दृष्ट्वा क्रूरकर्माणमग्रतः ।भयसंविग्नया वाचा वसिष्ठमिदमब्रवीत् ॥ १८ ॥
असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः ।प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ॥ १९ ॥
तं निवारयितुं शक्तो नान्योऽस्ति भुवि कश्चन ।त्वदृतेऽद्य महाभाग सर्ववेदविदां वर ॥ २० ॥
त्राहि मां भगवन्पापादस्माद्दारुणदर्शनात् ।रक्षो अत्तुमिह ह्यावां नूनमेतच्चिकीर्षति ॥ २१ ॥
« »