Click on words to see what they mean.

गन्धर्व उवाच ।कल्माषपाद इत्यस्मिँल्लोके राजा बभूव ह ।इक्ष्वाकुवंशजः पार्थ तेजसासदृशो भुवि ॥ १ ॥
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् ।मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥ २ ॥
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् ।तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ॥ ३ ॥
अपश्यदजितः संख्ये मुनिं प्रतिमुखागतम् ।शक्तिं नाम महाभागं वसिष्ठकुलनन्दनम् ।ज्येष्ठं पुत्रशतात्पुत्रं वसिष्ठस्य महात्मनः ॥ ४ ॥
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् ।तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥ ५ ॥
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः ।नापि राजा मुनेर्मानात्क्रोधाच्चापि जगाम ह ॥ ६ ॥
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः ।जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥ ७ ॥
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः ।तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥ ८ ॥
हंसि राक्षसवद्यस्माद्राजापसद तापसम् ।तस्मात्त्वमद्य प्रभृति पुरुषादो भविष्यसि ॥ ९ ॥
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् ।गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥ १० ॥
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः ।वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥ ११ ॥
तयोर्विवदतोरेवं समीपमुपचक्रमे ।ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥ १२ ॥
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः ।ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥ १३ ॥
अन्तर्धाय तदात्मानं विश्वामित्रोऽपि भारत ।तावुभावुपचक्राम चिकीर्षन्नात्मनः प्रियम् ॥ १४ ॥
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः ।जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥ १५ ॥
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन ।विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥ १६ ॥
स शापात्तस्य विप्रर्षेर्विश्वामित्रस्य चाज्ञया ।राक्षसः किंकरो नाम विवेश नृपतिं तदा ॥ १७ ॥
रक्षसा तु गृहीतं तं विदित्वा स मुनिस्तदा ।विश्वामित्रोऽप्यपक्रामत्तस्माद्देशादरिंदम ॥ १८ ॥
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना ।बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥ १९ ॥
ददर्श तं द्विजः कश्चिद्राजानं प्रस्थितं पुनः ।ययाचे क्षुधितश्चैनं समांसं भोजनं तदा ॥ २० ॥
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा ।आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तमिति सान्त्वयन् ॥ २१ ॥
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् ।इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥ २२ ॥
अन्तर्गतं तु तद्राज्ञस्तदा ब्राह्मणभाषितम् ।सोऽन्तःपुरं प्रविश्याथ संविवेश नराधिपः ॥ २३ ॥
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् ।उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥ २४ ॥
गच्छामुष्मिन्नसौ देशे ब्राह्मणो मां प्रतीक्षते ।अन्नार्थी त्वं तमन्नेन समांसेनोपपादय ॥ २५ ॥
एवमुक्तस्तदा सूदः सोऽनासाद्यामिषं क्वचित् ।निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥ २६ ॥
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः ।अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥ २७ ॥
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् ।गत्वा जहार त्वरितो नरमांसमपेतभीः ॥ २८ ॥
स तत्संस्कृत्य विधिवदन्नोपहितमाशु वै ।तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥ २९ ॥
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः ।अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥ ३० ॥
यस्मादभोज्यमन्नं मे ददाति स नराधिपः ।तस्मात्तस्यैव मूढस्य भविष्यत्यत्र लोलुपा ॥ ३१ ॥
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा ।उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥ ३२ ॥
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् ।रक्षोबलसमाविष्टो विसंज्ञश्चाभवत्तदा ॥ ३३ ॥
ततः स नृपतिश्रेष्ठो राक्षसोपहतेन्द्रियः ।उवाच शक्तिं तं दृष्ट्वा नचिरादिव भारत ॥ ३४ ॥
यस्मादसदृशः शापः प्रयुक्तोऽयं त्वया मयि ।तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं मानुषानहम् ॥ ३५ ॥
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयुज्य सः ।शक्तिनं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥ ३६ ॥
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस्ततः पुनः ।वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥ ३७ ॥
स ताञ्शतावरान्पुत्रान्वसिष्ठस्य महात्मनः ।भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव ॥ ३८ ॥
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् ।धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥ ३९ ॥
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः ।न त्वेव कुशिकोच्छेदं मेने मतिमतां वरः ॥ ४० ॥
स मेरुकूटादात्मानं मुमोच भगवानृषिः ।शिरस्तस्य शिलायां च तूलराशाविवापतत् ॥ ४१ ॥
न ममार च पातेन स यदा तेन पाण्डव ।तदाग्निमिद्ध्वा भगवान्संविवेश महावने ॥ ४२ ॥
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः ।दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥ ४३ ॥
स समुद्रमभिप्रेत्य शोकाविष्टो महामुनिः ।बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदम्भसि ॥ ४४ ॥
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः ।जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥ ४५ ॥
« »