Click on words to see what they mean.

वसिष्ठ उवाच ।मा भैः पुत्रि न भेतव्यं रक्षसस्ते कथंचन ।नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम् ॥ १ ॥
राजा कल्माषपादोऽयं वीर्यवान्प्रथितो भुवि ।स एषोऽस्मिन्वनोद्देशे निवसत्यतिभीषणः ॥ २ ॥
गन्धर्व उवाच ।तमापतन्तं संप्रेक्ष्य वसिष्ठो भगवानृषिः ।वारयामास तेजस्वी हुंकरेणैव भारत ॥ ३ ॥
मन्त्रपूतेन च पुनः स तमभ्युक्ष्य वारिणा ।मोक्षयामास वै घोराद्राक्षसाद्राजसत्तमम् ॥ ४ ॥
स हि द्वादश वर्षाणि वसिष्ठस्यैव तेजसा ।ग्रस्त आसीद्गृहेणेव पर्वकाले दिवाकरः ॥ ५ ॥
रक्षसा विप्रमुक्तोऽथ स नृपस्तद्वनं महत् ।तेजसा रञ्जयामास संध्याभ्रमिव भास्करः ॥ ६ ॥
प्रतिलभ्य ततः संज्ञामभिवाद्य कृताञ्जलिः ।उवाच नृपतिः काले वसिष्ठमृषिसत्तमम् ॥ ७ ॥
सौदासोऽहं महाभाग याज्यस्ते द्विजसत्तम ।अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥ ८ ॥
वसिष्ठ उवाच ।वृत्तमेतद्यथाकालं गच्छ राज्यं प्रशाधि तत् ।ब्राह्मणांश्च मनुष्येन्द्र मावमंस्थाः कदाचन ॥ ९ ॥
राजोवाच ।नावमंस्याम्यहं ब्रह्मन्कदाचिद्ब्राह्मणर्षभान् ।त्वन्निदेशे स्थितः शश्वत्पुजयिष्याम्यहं द्विजान् ॥ १० ॥
इक्ष्वाकूणां तु येनाहमनृणः स्यां द्विजोत्तम ।तत्त्वत्तः प्राप्तुमिच्छामि वरं वेदविदां वर ॥ ११ ॥
अपत्यायेप्सितां मह्यं महिषीं गन्तुमर्हसि ।शीलरूपगुणोपेतामिक्ष्वाकुकुलवृद्धये ॥ १२ ॥
गन्धर्व उवाच ।ददानीत्येव तं तत्र राजानं प्रत्युवाच ह ।वसिष्ठः परमेष्वासं सत्यसंधो द्विजोत्तमः ॥ १३ ॥
ततः प्रतिययौ काले वसिष्ठसहितोऽनघ ।ख्यातं पुरवरं लोकेष्वयोध्यां मनुजेश्वरः ॥ १४ ॥
तं प्रजाः प्रतिमोदन्त्यः सर्वाः प्रत्युद्ययुस्तदा ।विपाप्मानं महात्मानं दिवौकस इवेश्वरम् ॥ १५ ॥
अचिरात्स मनुष्येन्द्रो नगरीं पुण्यकर्मणाम् ।विवेश सहितस्तेन वसिष्ठेन महात्मना ॥ १६ ॥
ददृशुस्तं ततो राजन्नयोध्यावासिनो जनाः ।पुष्येण सहितं काले दिवाकरमिवोदितम् ॥ १७ ॥
स हि तां पूरयामास लक्ष्म्या लक्ष्मीवतां वरः ।अयोध्यां व्योम शीतांशुः शरत्काल इवोदितः ॥ १८ ॥
संसिक्तमृष्टपन्थानं पताकोच्छ्रयभूषितम् ।मनः प्रह्लादयामासा तस्य तत्पुरमुत्तमम् ॥ १९ ॥
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन ।अशोभत तदा तेन शक्रेणेवामरावती ॥ २० ॥
ततः प्रविष्टे राजेन्द्रे तस्मिन्राजनि तां पुरीम् ।तस्य राज्ञोऽऽज्ञया देवी वसिष्ठमुपचक्रमे ॥ २१ ॥
ऋतावथ महर्षिः स संबभूव तया सह ।देव्या दिव्येन विधिना वसिष्ठः श्रेष्ठभागृषिः ॥ २२ ॥
अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः ।राज्ञाभिवादितस्तेन जगाम पुनराश्रमम् ॥ २३ ॥
दीर्घकालधृतं गर्भं सुषाव न तु तं यदा ।साथ देव्यश्मना कुक्षिं निर्बिभेद तदा स्वकम् ॥ २४ ॥
द्वादशेऽथ ततो वर्षे स जज्ञे मनुजर्षभ ।अश्मको नाम राजर्षिः पोतनं यो न्यवेशयत् ॥ २५ ॥
« »