Click on words to see what they mean.

अर्जुन उवाच ।कारणं ब्रूहि गन्धर्व किं तद्येन स्म धर्षिताः ।यान्तो ब्रह्मविदः सन्तः सर्वे रात्रावरिंदम ॥ १ ॥
गन्धर्व उवाच ।अनग्नयोऽनाहुतयो न च विप्रपुरस्कृताः ।यूयं ततो धर्षिताः स्थ मया पाण्डवनन्दन ॥ २ ॥
यक्षराक्षसगन्धर्वाः पिशाचोरगमानवाः ।विस्तरं कुरुवंशस्य श्रीमतः कथयन्ति ते ॥ ३ ॥
नारदप्रभृतीनां च देवर्षीणां मया श्रुतम् ।गुणान्कथयतां वीर पूर्वेषां तव धीमताम् ॥ ४ ॥
स्वयं चापि मया दृष्टश्चरता सागराम्बराम् ।इमां वसुमतीं कृत्स्नां प्रभावः स्वकुलस्य ते ॥ ५ ॥
वेदे धनुषि चाचार्यमभिजानामि तेऽर्जुन ।विश्रुतं त्रिषु लोकेषु भारद्वाजं यशस्विनम् ॥ ६ ॥
धर्मं वायुं च शक्रं च विजानाम्यश्विनौ तथा ।पाण्डुं च कुरुशार्दूल षडेतान्कुलवर्धनान् ।पितॄनेतानहं पार्थ देवमानुषसत्तमान् ॥ ७ ॥
दिव्यात्मानो महात्मानः सर्वशस्त्रभृतां वराः ।भवन्तो भ्रातरः शूराः सर्वे सुचरितव्रताः ॥ ८ ॥
उत्तमां तु मनोबुद्धिं भवतां भावितात्मनाम् ।जानन्नपि च वः पार्थ कृतवानिह धर्षणाम् ॥ ९ ॥
स्त्रीसकाशे च कौरव्य न पुमान्क्षन्तुमर्हति ।धर्षणामात्मनः पश्यन्बाहुद्रविणमाश्रितः ॥ १० ॥
नक्तं च बलमस्माकं भूय एवाभिवर्धते ।यतस्ततो मां कौन्तेय सदारं मन्युराविशत् ॥ ११ ॥
सोऽहं त्वयेह विजितः संख्ये तापत्यवर्धन ।येन तेनेह विधिना कीर्त्यमानं निबोध मे ॥ १२ ॥
ब्रह्मचर्यं परो धर्मः स चापि नियतस्त्वयि ।यस्मात्तस्मादहं पार्थ रणेऽस्मिन्विजितस्त्वया ॥ १३ ॥
यस्तु स्यात्क्षत्रियः कश्चित्कामवृत्तः परंतप ।नक्तं च युधि युध्येत न स जीवेत्कथंचन ॥ १४ ॥
यस्तु स्यात्कामवृत्तोऽपि राजा तापत्य संगरे ।जयेन्नक्तंचरान्सर्वान्स पुरोहितधूर्गतः ॥ १५ ॥
तस्मात्तापत्य यत्किंचिन्नृणां श्रेय इहेप्सितम् ।तस्मिन्कर्मणि योक्तव्या दान्तात्मानः पुरोहिताः ॥ १६ ॥
वेदे षडङ्गे निरताः शुचयः सत्यवादिनः ।धर्मात्मानः कृतात्मानः स्युर्नृपाणां पुरोहिताः ॥ १७ ॥
जयश्च नियतो राज्ञः स्वर्गश्च स्यादनन्तरम् ।यस्य स्याद्धर्मविद्वाग्मी पुरोधाः शीलवाञ्शुचिः ॥ १८ ॥
लाभं लब्धुमलब्धं हि लब्धं च परिरक्षितुम् ।पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥ १९ ॥
पुरोहितमते तिष्ठेद्य इच्छेत्पृथिवीं नृपः ।प्राप्तुं मेरुवरोत्तंसां सर्वशः सागराम्बराम् ॥ २० ॥
न हि केवलशौर्येण तापत्याभिजनेन च ।जयेदब्राह्मणः कश्चिद्भूमिं भूमिपतिः क्वचित् ॥ २१ ॥
तस्मादेवं विजानीहि कुरूणां वंशवर्धन ।ब्राह्मणप्रमुखं राज्यं शक्यं पालयितुं चिरम् ॥ २२ ॥
« »