Click on words to see what they mean.

वैशंपायन उवाच ।ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः ।समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः ॥ १ ॥
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम् ।आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः ॥ २ ॥
उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः ।प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥ ३ ॥
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः ।ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः ॥ ४ ॥
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम् ।तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली ॥ ५ ॥
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान् ।विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत् ॥ ६ ॥
संध्या संरज्यते घोरा पूर्वरात्रागमेषु या ।अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते ॥ ७ ॥
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम् ।शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम् ॥ ८ ॥
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान् ।उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान् ॥ ९ ॥
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः ।गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि ॥ १० ॥
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत ।कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम् ॥ ११ ॥
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम् ।अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा ॥ १२ ॥
अङ्गारपर्णमिति च ख्यातं वनमिदं मम ।अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम् ॥ १३ ॥
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः ।इदं समुपसर्पन्ति तत्किं समुपसर्पथ ॥ १४ ॥
अर्जुन उवाच ।समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते ।रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः ॥ १५ ॥
वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः ।अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः ॥ १६ ॥
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता ।गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते ॥ १७ ॥
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः ।देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम् ॥ १८ ॥
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः ।गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत् ॥ १९ ॥
असंबाधा देवनदी स्वर्गसंपादनी शुभा ।कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः ॥ २० ॥
अनिवार्यमसंबाधं तव वाचा कथं वयम् ।न स्पृशेम यथाकामं पुण्यं भागीरथीजलम् ॥ २१ ॥
वैशंपायन उवाच ।अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम् ।मुमोच सायकान्दीप्तानहीनाशीविषानिव ॥ २२ ॥
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम् ।व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः ॥ २३ ॥
अर्जुन उवाच ।बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते ।अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते ॥ २४ ॥
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये ।तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया ॥ २५ ॥
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः ।भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः ॥ २६ ॥
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम ।स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः ॥ २७ ॥
वैशंपायन उवाच ।इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह ।प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत् ॥ २८ ॥
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम् ।अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम् ॥ २९ ॥
शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः ।भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम् ॥ ३० ॥
युधिष्ठिरं तस्य भार्या प्रपेदे शरणार्थिनी ।नाम्ना कुम्भीनसी नाम पतित्राणमभीप्सती ॥ ३१ ॥
गन्धर्व्युवाच ।त्राहि त्वं मां महाराज पतिं चेमं विमुञ्च मे ।गन्धर्वीं शरणं प्राप्तां नाम्ना कुम्बीनसीं प्रभो ॥ ३२ ॥
युधिष्ठिर उवाच ।युद्धे जितं यशोहीनं स्त्रीनाथमपराक्रमम् ।को नु हन्याद्रिपुं त्वादृङ्मुञ्चेमं रिपुसूदन ॥ ३३ ॥
अर्जुन उवाच ।अङ्गेमं प्रतिपद्यस्व गच्छ गन्धर्व मा शुचः ।प्रदिशत्यभयं तेऽद्य कुरुराजो युधिष्ठिरः ॥ ३४ ॥
गन्धर्व उवाच ।जितोऽहं पूर्वकं नाम मुञ्चाम्यङ्गारपर्णताम् ।न च श्लाघे बलेनाद्य न नाम्ना जनसंसदि ॥ ३५ ॥
साध्विमं लब्धवाँल्लाभं योऽहं दिव्यास्त्रधारिणम् ।गान्धर्व्या मायया योद्धुमिच्छामि वयसा वरम् ॥ ३६ ॥
अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः ।सोऽहं चित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥ ३७ ॥
संभृता चैव विद्येयं तपसेह पुरा मया ।निवेदयिष्ये तामद्य प्राणदाया महात्मने ॥ ३८ ॥
संस्तम्भितं हि तरसा जितं शरणमागतम् ।योऽरिं संयोजयेत्प्राणैः कल्याणं किं न सोऽर्हति ॥ ३९ ॥
चक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः ।ददौ स विश्वावसवे मह्यं विश्वावसुर्ददौ ॥ ४० ॥
सेयं कापुरुषं प्राप्ता गुरुदत्ता प्रणश्यति ।आगमोऽस्या मया प्रोक्तो वीर्यं प्रतिनिबोध मे ॥ ४१ ॥
यच्चक्षुषा द्रष्टुमिच्छेत्त्रिषु लोकेषु किंचन ।तत्पश्येद्यादृशं चेच्छेत्तादृषं द्रष्टुमर्हति ॥ ४२ ॥
समानपद्ये षण्मासान्स्थितो विद्यां लभेदिमाम् ।अनुनेष्याम्यहं विद्यां स्वयं तुभ्यं व्रते कृते ॥ ४३ ॥
विद्यया ह्यनया राजन्वयं नृभ्यो विशेषिताः ।अविशिष्टाश्च देवानामनुभावप्रवर्तिताः ॥ ४४ ॥
गन्धर्वजानामश्वानामहं पुरुषसत्तम ।भ्रातृभ्यस्तव पञ्चभ्यः पृथग्दाता शतं शतम् ॥ ४५ ॥
देवगन्धर्ववाहास्ते दिव्यगन्धा मनोगमाः ।क्षीणाः क्षीणा भवन्त्येते न हीयन्ते च रंहसः ॥ ४६ ॥
पुरा कृतं महेन्द्रस्य वज्रं वृत्रनिबर्हणे ।दशधा शतधा चैव तच्छीर्णं वृत्रमूर्धनि ॥ ४७ ॥
ततो भागीकृतो देवैर्वज्रभाग उपास्यते ।लोके यत्साधनं किंचित्सा वै वज्रतनुः स्मृता ॥ ४८ ॥
वज्रपाणिर्ब्राह्मणः स्यात्क्षत्रं वज्ररथं स्मृतम् ।वैश्या वै दानवज्राश्च कर्मवज्रा यवीयसः ॥ ४९ ॥
वज्रं क्षत्रस्य वाजिनो अवध्या वाजिनः स्मृताः ।रथाङ्गं वडवा सूते सूताश्चाश्वेषु ये मताः ॥ ५० ॥
कामवर्णाः कामजवाः कामतः समुपस्थिताः ।इमे गन्धर्वजाः कामं पूरयिष्यन्ति ते हयाः ॥ ५१ ॥
अर्जुन उवाच ।यदि प्रीतेन वा दत्तं संशये जीवितस्य वा ।विद्या वित्तं श्रुतं वापि न तद्गन्धर्व कामये ॥ ५२ ॥
गन्धर्व उवाच ।संयोगो वै प्रीतिकरः संसत्सु प्रतिदृश्यते ।जीवितस्य प्रदानेन प्रीतो विद्यां ददामि ते ॥ ५३ ॥
त्वत्तो ह्यहं ग्रहीष्यामि अस्त्रमाग्नेयमुत्तमम् ।तथैव सख्यं बीभत्सो चिराय भरतर्षभ ॥ ५४ ॥
अर्जुन उवाच ।त्वत्तोऽस्त्रेण वृणोम्यश्वान्संयोगः शाश्वतोऽस्तु नौ ।सखे तद्ब्रूहि गन्धर्व युष्मभ्यो यद्भयं त्यजेत् ॥ ५५ ॥
« »