Click on words to see what they mean.

कुन्त्युवाच ।कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः ।विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम् ॥ १ ॥
ब्राह्मण उवाच ।उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने ।न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम् ॥ २ ॥
समीपे नगरस्यास्य बको वसति राक्षसः ।ईशो जनपदस्यास्य पुरस्य च महाबलः ॥ ३ ॥
पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः ।रक्षत्यसुरराण्नित्यमिमं जनपदं बली ॥ ४ ॥
नगरं चैव देशं च रक्षोबलसमन्वितः ।तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम् ॥ ५ ॥
वेतनं तस्य विहितं शालिवाहस्य भोजनम् ।महिषौ पुरुषश्चैको यस्तदादाय गच्छति ॥ ६ ॥
एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम् ।स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः ॥ ७ ॥
तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित् ।सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत ॥ ८ ॥
वेत्रकीयगृहे राजा नायं नयमिहास्थितः ।अनामयं जनस्यास्य येन स्यादद्य शाश्वतम् ॥ ९ ॥
एतदर्हा वयं नूनं वसामो दुर्बलस्य ये ।विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः ॥ १० ॥
ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः ।गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा ॥ ११ ॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।त्रयस्य संचये चास्य ज्ञातीन्पुत्रांश्च धारयेत् ॥ १२ ॥
विपरीतं मया चेदं त्रयं सर्वमुपार्जितम् ।त इमामापदं प्राप्य भृशं तप्स्यामहे वयम् ॥ १३ ॥
सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः ।भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया ॥ १४ ॥
न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित् ।सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन ।गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः ॥ १५ ॥
सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम् ।सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम् ।ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति ॥ १६ ॥
« »