Click on words to see what they mean.

वैशंपायन उवाच ।तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् ।भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥ १ ॥
किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत् ।ममापि श्रूयतां किंचिच्छ्रुत्वा च क्रियतां क्षमम् ॥ २ ॥
धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः ।त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥ ३ ॥
इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ।तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥ ४ ॥
इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् ।सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ ५ ॥
आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः ।तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः ॥ ६ ॥
भ्राता च मम बालोऽयं गते लोकममुं त्वयि ।अचिरेणैव कालेन विनश्येत न संशयः ॥ ७ ॥
तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे ।पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥ ८ ॥
पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् ।दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥ ९ ॥
त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः ।संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥ १० ॥
आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल ।स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय ॥ ११ ॥
अनाथा कृपणा बाला यत्रक्वचनगामिनी ।भविष्यामि त्वया तात विहीना कृपणा बत ॥ १२ ॥
अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम् ।फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥ १३ ॥
अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम ।पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥ १४ ॥
तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम ।आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज ॥ १५ ॥
अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम् ।त्वया दत्तेन तोयेन भविष्यति हितं च मे ॥ १६ ॥
किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि ।याचमानाः परादन्नं परिधावेमहि श्ववत् ॥ १७ ॥
त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे ।अमृते वसती लोके भविष्यामि सुखान्विता ॥ १८ ॥
एवं बहुविधं तस्या निशम्य परिदेवितम् ।पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥ १९ ॥
ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः ।उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥ २० ॥
मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् ।प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥ २१ ॥
ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् ।अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥ २२ ॥
तथापि तेषां दुःखेन परीतानां निशम्य तत् ।बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान् ॥ २३ ॥
अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् ।गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥ २४ ॥
« »