Click on words to see what they mean.

वैशंपायन उवाच ।कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत ।दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥ १ ॥
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥ २ ॥
राजन्संप्राप्तविद्यास्ते कुमराः कुरुसत्तम ।ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥ ३ ॥
ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना ।भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ॥ ४ ॥
यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा ।तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ॥ ५ ॥
स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् ।अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ॥ ६ ॥
क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा ।न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥ ७ ॥
ततो राजानमामन्त्र्य विदुरानुगतो बहिः ।भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ।समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥ ८ ॥
तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते ।अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥ ९ ॥
रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ।प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ।राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥ १० ॥
मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः ।विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥ ११ ॥
तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा ।भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥ १२ ॥
मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् ।शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ॥ १३ ॥
गान्धारी च महाभागा कुन्ती च जयतां वर ।स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ।हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥ १४ ॥
ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् ।दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥ १५ ॥
प्रवादितैश्च वादित्रैर्जनकौतूहलेन च ।महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥ १६ ॥
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् ।शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥ १७ ॥
रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह ।नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥ १८ ॥
स यथासमयं चक्रे बलिं बलवतां वरः ।ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥ १९ ॥
अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् ।विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ॥ २० ॥
ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः ।बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥ २१ ॥
अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः ।चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥ २२ ॥
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे ।मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥ २३ ॥
ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः ।विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥ २४ ॥
तत्कुमारबलं तत्र गृहीतशरकार्मुकम् ।गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥ २५ ॥
सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः ।विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥ २६ ॥
कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् ।गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥ २७ ॥
गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः ।त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥ २८ ॥
लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥ २९ ॥
अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ ।अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥ ३० ॥
बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ ।बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥ ३१ ॥
तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ ।चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥ ३२ ॥
विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः ।न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ ३३ ॥
« »