Click on words to see what they mean.

वैशंपायन उवाच ।ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥ १ ॥
द्रुपद उवाच ।अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी ।यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥ २ ॥
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् ।सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥ ३ ॥
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् ।सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥ ४ ॥
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् ।कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥ ५ ॥
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु ।आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥ ६ ॥
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा ।शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥ ७ ॥
ययोरेव समं वित्तं ययोरेव समं कुलम् ।तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥ ८ ॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।नाराज्ञा संगतं राज्ञः सखिपूर्वं किमिष्यते ॥ ९ ॥
वैशंपायन उवाच ।द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् ।मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥ १० ॥
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् ।जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥ ११ ॥
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् ।क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥ १२ ॥
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा ।न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥ १३ ॥
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा ।प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥ १४ ॥
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् ।भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥ १५ ॥
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः ।अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥ १६ ॥
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया ।तामन्यया समायोगो वीटाया ग्रहणे मम ॥ १७ ॥
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः ।अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥ १८ ॥
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते ।कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥ १९ ॥
द्रोण उवाच ।आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् ।स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते ॥ २० ॥
वैशंपायन उवाच ।तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् ।ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥ २१ ॥
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत ।युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥ २२ ॥
अथैनमानीय तदा स्वयमेव सुसत्कृतम् ।परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ।हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥ २३ ॥
महर्षेरग्निवेश्यस्य सकाशमहमच्युत ।अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥ २४ ॥
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः ।अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥ २५ ॥
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः ।मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥ २६ ॥
स मे तत्र सखा चासीदुपकारी प्रियश्च मे ।तेनाहं सह संगम्य रतवान्सुचिरं बत ।बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥ २७ ॥
स समासाद्य मां तत्र प्रियकारी प्रियंवदः ।अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥ २८ ॥
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः ।अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥ २९ ॥
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे ।मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥ ३० ॥
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया ।अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥ ३१ ॥
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् ।संस्मरन्संगमं चैव वचनं चैव तस्य तत् ॥ ३२ ॥
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो ।अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥ ३३ ॥
उपस्थितं तु द्रुपदः सखिवच्चाभिसंगतम् ।स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥ ३४ ॥
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी ।यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ॥ ३५ ॥
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित् ।सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥ ३६ ॥
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ ३७ ॥
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः ।अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥ ३८ ॥
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह ।पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥ ३९ ॥
शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् ।स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ॥ ४० ॥
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् ।रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥ ४१ ॥
कार्यं मे काङ्क्षितं किंचिद्धृदि संपरिवर्तते ।कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥ ४२ ॥
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते ।अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परंतपः ॥ ४३ ॥
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः ।प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥ ४४ ॥
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च ।ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥ ४५ ॥
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ ।अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ।वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥ ४६ ॥
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा ।स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ।दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥ ४७ ॥
« »