Click on words to see what they mean.

वैशंपायन उवाच ।कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ।मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥ १ ॥
न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप ।नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥ २ ॥
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा ।श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥ ३ ॥
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता ।दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः ॥ ४ ॥
यदि त्वपत्यसंतानं कुन्तिराजसुता मयि ।कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥ ५ ॥
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति ।यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥ ६ ॥
पाण्डुरुवाच ।ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते ।न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥ ७ ॥
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् ।मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥ ८ ॥
वैशंपायन उवाच ।ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् ।कुलस्य मम संतानं लोकस्य च कुरु प्रियम् ॥ ९ ॥
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः ।मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥ १० ॥
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् ।प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥ ११ ॥
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् ।गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥ १२ ॥
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः ।चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥ १३ ॥
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते ।अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥ १४ ॥
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् ।तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥ १५ ॥
ततो माद्री विचार्यैव जगाम मनसाश्विनौ ।तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥ १६ ॥
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि ।तथैव तावपि यमौ वागुवाचाशरीरिणी ॥ १७ ॥
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति ।भासतस्तेजसात्यर्थं रूपद्रविणसंपदा ॥ १८ ॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः ।भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥ १९ ॥
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् ।अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥ २० ॥
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् ।माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ।अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥ २१ ॥
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ।तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥ २२ ॥
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ।बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥ २३ ॥
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ।तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥ २४ ॥
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः ।संभूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥ २५ ॥
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः ।सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ।सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥ २६ ॥
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ ।विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥ २७ ॥
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥ २८ ॥
« »