Click on words to see what they mean.

वैशंपायन उवाच ।संवत्सराहिते गर्भे गान्धार्या जनमेजय ।आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ॥ १ ॥
सा बलिं त्वरिता देवी धर्मायोपजहार ह ।जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥ २ ॥
संगम्य सा तु धर्मेण योगमूर्तिधरेण वै ।लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥ ३ ॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे ।दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥ ४ ॥
समृद्धयशसं कुन्ती सुषाव समये सुतम् ।जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥ ५ ॥
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः ।युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥ ६ ॥
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः ।यशसा तेजसा चैव वृत्तेन च समन्वितः ॥ ७ ॥
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् ।प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥ ८ ॥
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा ।तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥ ९ ॥
तमप्यतिबलं जातं वागभ्यवददच्युतम् ।सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥ १० ॥
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे ।यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥ ११ ॥
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल ।नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥ १२ ॥
ततः स वज्रसंघातः कुमारोऽभ्यपतद्गिरौ ।पतता तेन शतधा शिला गात्रैर्विचूर्णिता ।तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥ १३ ॥
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम ।दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥ १४ ॥
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् ।कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥ १५ ॥
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः ।तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥ १६ ॥
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् ।अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥ १७ ॥
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् ।यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ।कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥ १८ ॥
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः ।दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥ १९ ॥
आत्मना च महाबाहुरेकपादस्थितोऽभवत् ।उग्रं स तप आतस्थे परमेण समाधिना ॥ २० ॥
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् ।सूर्येण सह धर्मात्मा पर्यवर्तत भारत ॥ २१ ॥
तं तु कालेन महता वासवः प्रत्यभाषत ।पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥ २२ ॥
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् ।सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥ २३ ॥
इत्युक्तः कौरवो राजा वासवेन महात्मना ।उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥ २४ ॥
नीतिमन्तं महात्मानमादित्यसमतेजसम् ।दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥ २५ ॥
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् ।लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥ २६ ॥
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी ।अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥ २७ ॥
जातमात्रे कुमारे तु वागुवाचाशरीरिणी ।महागम्भीरनिर्घोषा नभो नादयती तदा ॥ २८ ॥
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः ।एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥ २९ ॥
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता ।तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥ ३० ॥
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः ।चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥ ३१ ॥
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः ।मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥ ३२ ॥
ग्रामणीश्च महीपालानेष जित्वा महाबलः ।भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥ ३३ ॥
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः ।एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥ ३४ ॥
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति ।विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥ ३५ ॥
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके ।उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥ ३६ ॥
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् ।बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥ ३७ ॥
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् ।आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥ ३८ ॥
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः ।समवेत्य च देवानां गणाः पार्थमपूजयन् ॥ ३९ ॥
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा ।प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥ ४० ॥
भरद्वाजः कश्यपो गौतमश्च विश्वामित्रो जमदग्निर्वसिष्ठः ।यश्चोदितो भास्करेऽभूत्प्रनष्टे सोऽप्यत्रात्रिर्भगवानाजगाम ॥ ४१ ॥
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः ।दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥ ४२ ॥
दिव्यमाल्याम्बरधराः सर्वालंकारभूषिताः ।उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ।गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥ ४३ ॥
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा ।गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥ ४४ ॥
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा ।त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥ ४५ ॥
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः ।सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥ ४६ ॥
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः ।विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥ ४७ ॥
गीतमाधुर्यसंपन्नौ विख्यातौ च हहाहुहू ।इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ॥ ४८ ॥
तथैवाप्सरसो हृष्टाः सर्वालंकारभूषिताः ।ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥ ४९ ॥
अनूना चानवद्या च प्रियमुख्या गुणावरा ।अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥ ५० ॥
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा ।अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥ ५१ ॥
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा ।पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥ ५२ ॥
काम्या शारद्वती चैव ननृतुस्तत्र संघशः ।मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥ ५३ ॥
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि ।उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ।उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥ ५४ ॥
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥ ५५ ॥
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः ।महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥ ५६ ॥
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः ।अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः ॥ ५७ ॥
दहनोऽथेश्वरश्चैव कपाली च विशां पते ।स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥ ५८ ॥
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः ।विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥ ५९ ॥
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजंगमः ।कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ॥ ६० ॥
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः ।एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥ ६१ ॥
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः ।अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥ ६२ ॥
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः ।अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ॥ ६३ ॥
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः ।प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥ ६४ ॥
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत ।अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ॥ ६५ ॥
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् ।अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥ ६६ ॥
« »