Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् ।धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥ १ ॥
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह ।यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥ २ ॥
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे ।पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥ ३ ॥
अनावृताः किल पुरा स्त्रिय आसन्वरानने ।कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥ ४ ॥
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् ।नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥ ५ ॥
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः ।अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ।पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥ ६ ॥
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते ।स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥ ७ ॥
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते ।स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥ ८ ॥
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ।श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥ ९ ॥
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् ।कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥ १० ॥
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ।जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥ ११ ॥
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा ।मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥ १२ ॥
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ।मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥ १३ ॥
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ।यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥ १४ ॥
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ।चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥ १५ ॥
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ।तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥ १६ ॥
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् ।भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥ १७ ॥
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् ।पतिव्रतामेतदेव भविता पातकं भुवि ॥ १८ ॥
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च ।न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥ १९ ॥
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ।उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥ २० ॥
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि ।मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥ २१ ॥
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ।भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥ २२ ॥
अस्माकमपि ते जन्म विदितं कमलेक्षणे ।कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥ २३ ॥
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ।ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥ २४ ॥
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते ।नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥ २५ ॥
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ।धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥ २६ ॥
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा ।यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥ २७ ॥
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् ।यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥ २८ ॥
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे ।प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥ २९ ॥
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् ।पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ।त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥ ३० ॥
एवमुक्ता ततः कुन्ती पाण्डुं परपुरंजयम् ।प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥ ३१ ॥
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने ।उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥ ३२ ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥ ३३ ॥
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् ।मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥ ३४ ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।अकामो वा सकामो वा स ते वशमुपैष्यति ॥ ३५ ॥
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत ।ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥ ३६ ॥
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ।तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥ ३७ ॥
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर ।त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥ ३८ ॥
पाण्डुरुवाच ।अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि ।धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥ ३९ ॥
अधर्मेण न नो धर्मः संयुज्येत कथंचन ।लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥ ४० ॥
धार्मिकश्च कुरूणां स भविष्यति न संशयः ।दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥ ४१ ॥
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते ।उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥ ४२ ॥
वैशंपायन उवाच ।सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना ।अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥ ४३ ॥
« »