Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्ता महाराज कुन्ती पाण्डुमभाषत ।कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥ १ ॥
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन ।धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥ २ ॥
त्वमेव तु महाबाहो मय्यपत्यानि भारत ।वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥ ३ ॥
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया ।अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥ ४ ॥
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् ।त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥ ५ ॥
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् ।परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥ ६ ॥
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः ।पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥ ७ ॥
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि ।उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥ ८ ॥
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥ ९ ॥
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत ।सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥ १० ॥
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः ।प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥ ११ ॥
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् ।बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥ १२ ॥
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः ।व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम् ।अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥ १३ ॥
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् ।अनन्तरत्नान्यादाय आजहार महाक्रतून् ।सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥ १४ ॥
आसीत्काक्षीवती चास्य भार्या परमसंमता ।भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥ १५ ॥
कामयामासतुस्तौ तु परस्परमिति श्रुतिः ।स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥ १६ ॥
तेनाचिरेण कालेन जगामास्तमिवांशुमान् ।तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥ १७ ॥
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् ।भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥ १८ ॥
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता ।पतिं विना जीवति या न सा जीवति दुःखिता ॥ १९ ॥
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव ।त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥ २० ॥
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे ।प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥ २१ ॥
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च ।त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥ २२ ॥
छायेवानपगा राजन्सततं वशवर्तिनी ।भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥ २३ ॥
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः ।आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥ २४ ॥
अभाग्यया मया नूनं वियुक्ताः सहचारिणः ।संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥ २५ ॥
तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम् ।दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम् ॥ २६ ॥
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी ।भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥ २७ ॥
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् ।दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥ २८ ॥
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः ।तं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥ २९ ॥
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव ।जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥ ३० ॥
आत्मीये च वरारोहे शयनीये चतुर्दशीम् ।अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥ ३१ ॥
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता ।यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥ ३२ ॥
सा तेन सुषुवे देवी शवेन मनुजाधिप ।त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥ ३३ ॥
तथा त्वमपि मय्येव मनसा भरतर्षभ ।शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥ ३४ ॥
« »