Click on words to see what they mean.

वैशंपायन उवाच ।तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् ।सिद्धचारणसंघानां बभूव प्रियदर्शनः ॥ १ ॥
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः ।स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥ २ ॥
केषांचिदभवद्भ्राता केषांचिदभवत्सखा ।ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥ ३ ॥
स तु कालेन महता प्राप्य निष्कल्मषं तपः ।ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥ ४ ॥
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः ।प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ।उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥ ५ ॥
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् ।आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥ ६ ॥
उद्यानानि कुबेरस्य समानि विषमाणि च ।महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥ ७ ॥
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः ।सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥ ८ ॥
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः ।वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥ ९ ॥
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे ।न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥ १० ॥
पाण्डुरुवाच ।अप्रजस्य महाभागा न द्वारं परिचक्षते ।स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥ ११ ॥
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि ।पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥ १२ ॥
एतानि तु यथाकालं यो न बुध्यति मानवः ।न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥ १३ ॥
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् ।पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान् ॥ १४ ॥
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः ।पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥ १५ ॥
देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः ।इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥ १६ ॥
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना ।तथैवास्मिन्मम क्षेत्रे कथं वै संभवेत्प्रजा ॥ १७ ॥
तापसा ऊचुः ।अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् ।अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥ १८ ॥
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय ।अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥ १९ ॥
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि ।अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥ २० ॥
वैशंपायन उवाच ।तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् ।आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥ २१ ॥
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् ।अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥ २२ ॥
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता ।इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥ २३ ॥
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः ।सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥ २४ ॥
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते ।अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥ २५ ॥
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः ।नृशंसकारिणो भीरु यथैवोपहतं तथा ॥ २६ ॥
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने ।षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥ २७ ॥
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः ।पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥ २८ ॥
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः ।सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥ २९ ॥
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् ।उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥ ३० ॥
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः ।आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥ ३१ ॥
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् ।सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥ ३२ ॥
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति ।या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥ ३३ ॥
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे ।वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥ ३४ ॥
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् ।तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥ ३५ ॥
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् ।मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥ ३६ ॥
« »