पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणापूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः।देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसांभर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः॥४॥
आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतोलेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः।देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्कितेशङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥
खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलितेपद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः।हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनिभ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥
ये तावन्ति पयः पृषन्ति जलदादत्यन्तमुत्कण्ठितायाचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः।यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहोनो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः॥६५॥
लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणंयन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः।तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः॥८७॥
यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहांतन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः।साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखयापौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः॥१००॥
लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरंकिं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः।तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः॥१०१॥
वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथाकर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः।तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष तेखात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः॥१०३॥