सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरेसंजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः।यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥
पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणापूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः।देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसांभर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः॥४॥
उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुड्भलै-र्नीलाम्भोजकुलैस्तथा विचकिलै: क्रान्तं च कान्तं च यत्।तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधामध्ये मुग्ध कुसुम्भमुम्भसि भवेन्नैवैष युक्तः क्रमः॥५॥
यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्ध्रुवंयत्रास्ते मदनस्य लुप्तरमणीमग्नक्रमो विक्रमः।पक्वं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल-भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नादृतम्॥६॥
केनात्र कर्कशकरीरवनान्तरालेबाले बलाद्बकुलकन्दलि रोपितासि।यत्राप्नुयुर्मधुलिहस्तव कोमलानिनो कुड्भलानि न दलानि न कन्दलानि॥७॥
आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतोलेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः।देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्कितेशङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥
खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलितेपद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः।हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनिभ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥
चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गंसङ्गं दूरीकुरु कुरबके केतके मा निषीद।लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-र्यत्ते दैवात्परिसरगतः पारिजातः स जातः॥६२॥
पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः।माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यतेतत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः॥६३॥
ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतःपाथोधाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः।यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त-त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः॥६४॥
ये तावन्ति पयः पृषन्ति जलदादत्यन्तमुत्कण्ठितायाचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः।यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहोनो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः॥६५॥
कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनीतं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः।एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशांयत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः॥८६॥
लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणंयन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः।तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः॥८७॥
यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहांतन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः।साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखयापौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः॥१००॥
लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरंकिं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः।तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः॥१०१॥
वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथाकर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः।तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष तेखात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः॥१०३॥
एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः।केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरिद्राक्कल्लोलविकार कल्पितजगत्कम्पेऽपि झम्पारसः॥१०४॥