<?xml version='1.0' encoding='utf-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0"><teiHeader><fileDesc><title>अन्योक्तिमुक्तालता</title><author>शम्भुः</author></fileDesc><publicationStmt><publisher>Ambuda (https://ambuda.org)</publisher><availability>TODO</availability></publicationStmt><notesStmt><note>This text has been created by direct export from Ambuda's proofing system.</note></notesStmt><encodingDesc><projectDesc><p>Ambuda is an online library of Sanskrit literature.</p></projectDesc></encodingDesc></teiHeader><text><body><lg n="1"><l>मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा</l><l>मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः।</l><l>प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्ङ्गीगुरु-</l><l>र्बन्धूकप्रियबान्धवो धवलितश्यामाधवो माधवः॥१॥</l></lg><lg n="2"><l>हेलाक्रान्तहरिन्ति कुन्तलवधूवेणीहरिन्ति स्फुटं</l><l>भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः।</l><l>पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-</l><l>रोंकारं कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः॥२॥</l></lg><lg n="3"><l>सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे</l><l>संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः।</l><l>यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-</l><l>लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥</l></lg><lg n="4"><l>पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणा</l><l>पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः।</l><l>देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसां</l><l>भर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः॥४॥</l></lg><lg n="5"><l>उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुड्भलै-</l><l>र्नीलाम्भोजकुलैस्तथा विचकिलै: क्रान्तं च कान्तं च यत्।</l><l>तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा</l><l>मध्ये मुग्ध कुसुम्भमुम्भसि भवेन्नैवैष युक्तः क्रमः॥५॥</l></lg><lg n="6"><l>यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्ध्रुवं</l><l>यत्रास्ते मदनस्य लुप्तरमणीमग्नक्रमो विक्रमः।</l><l>पक्वं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल-</l><l>भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नादृतम्॥६॥</l></lg><lg n="7"><l>केनात्र कर्कशकरीरवनान्तराले</l><l>बाले बलाद्बकुलकन्दलि रोपितासि।</l><l>यत्राप्नुयुर्मधुलिहस्तव कोमलानि</l><l>नो कुड्भलानि न दलानि न कन्दलानि॥७॥</l></lg><lg n="8"><l>धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो</l><l>येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी।</l><l>तेषां पुण्ड्रककाण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां</l><l>किं मुग्धाः करभा मुधैव विरसा विन्दन्ति निन्दन्ति च॥८॥</l></lg><lg n="9"><l>मद्गुमाद्यति यत्र यत्र भजते भङ्गिं बको यत्र स</l><l>क्रौञ्च: किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः।</l><l>आस्ते बालमरालसालसलसद्दिक्कुञ्जरं पार्वती-</l><l>कर्णोत्तंसितकाञ्चनाब्जलमुकुलं यन्मानसं ते सरः॥९॥</l></lg><lg n="10"><l>श्रीसंकेतनिकेत केतक कुरु त्वं कुड्भलाडम्बरं</l><l>हे नीप स्मरदीप दीपय तनौ टङ्कं नवैरङ्कुरै:।</l><l>स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे</l><l>नीरोद्गारगभीर धीररसितप्रारम्भमम्भोधरः॥१०॥</l></lg><lg n="11"><l>गुर्वीमुर्वीतिलक तिलक स्वीकुरु स्वामभिख्यां</l><l>रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथा:।</l><l>भङ्गीमङ्गीकुरु रतिपतेर्मल्लि हे चूतवल्लि</l><l>प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः॥११॥</l></lg><lg n="12"><l>अद्रिद्रोण्यां निवस दिवसं जातलीलानुषङ्गै-</l><l>रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः।</l><l>दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदग्रे</l><l>प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः॥१२॥</l></lg><lg n="13"><l>कांतिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य य-</l><l>च्चञ्चचञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः।</l><l>तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना</l><l>तेनेदं रमणीकपोलफलके लावण्यमालोकितम्॥१३॥</l></lg><lg n="14"><l>आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः</l><l>खेलन्हेलोन्मदमधुकरीमानसे मानसे यः।</l><l>भेकोद्रेकप्रणयिनि वलद्वालजम्बालजाले</l><l>स स्यादुत्कः परिमितजले पल्वले किं मरालः॥१४॥</l></lg><lg n="15"><l>द्यां च क्ष्मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ</l><l>मेनाकोऽपि न कोऽपि यत्र दयितं यः सद्म पद्मापतेः।</l><l>लोलद्वालकुलीरकम्पकलया देवस्य तस्याम्भसां</l><l>भर्तुः कस्य कदा कियान्क्व  नु ननु क्षोभो दृशोर्गोचरः॥१५॥</l></lg><lg n="16"><l>गर्वं खर्वं कुरु कररुहोदञ्चनं मुञ्च कण्ठे</l><l>कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु।</l><l>शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी-</l><l>मुर्वी वोढुं मदजलसरित्संगतो दिड्भतङ्गः॥१६॥</l></lg><lg n="17"><l>चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका-</l><l>न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु।</l><l>एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः</l><l>प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः॥१७॥</l></lg><lg n="18"><l>उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः</l><l>सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः।</l><l>एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं</l><l>तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः॥१८॥</l></lg><lg n="19"><l>शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः</l><l>पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः।</l><l>एवं का गणना तवाद्य हि रतावद्योतखद्योत हे।</l><l>दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः॥१९॥</l></lg><lg n="20"><l>अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते</l><l>तद्रोलम्ब विडम्बनाय नलिनीं किं यासि कोऽयं क्रमः।</l><l>एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते</l><l>गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः॥२०॥</l></lg><lg n="21"><l>आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो</l><l>लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः।</l><l>देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते</l><l>शङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥</l></lg><lg n="22"><l>कुन्दे दलितादरः सरसिजे संजातकौतूहल:</l><l>कल्हार कलितस्पृहः किमपरं यः केतके कौतुकी।</l><l>निर्माता किममर्त्यराजतरुणी लीलावतंसश्रियो</l><l>योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः॥२२॥</l></lg><lg n="23"><l>शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः</l><l>कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः।</l><l>येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले</l><l>दोर्मूले कुचमण्डले च कुरुते रङ्गं कुङ्गीदृशाम्॥२३॥</l></lg><lg n="24"><l>शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे-</l><l>त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः।</l><l>तत्किं मीलितमम्बुजैर्विदलितं किं दन्तिदन्ताङ्कुरै-</l><l>र्भङ्ग: किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः॥२४॥</l></lg><lg n="25"><l>झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां</l><l>क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः।</l><l>एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे</l><l>शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः॥२५॥</l></lg><lg n="26"><l>येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो</l><l>यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः।</l><l>तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति-</l><l>र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः॥२६॥</l></lg><lg n="27"><l>अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा-</l><l>त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः।</l><l>सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि-</l><l>स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः॥२७॥</l></lg><lg n="28"><l>रोहत्सौरभविभ्रमाणि कमलासद्मानि पद्माकरे</l><l>पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु नुतिः।</l><l>तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि</l><l>त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः॥२८॥</l></lg><lg n="29"><l>किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता</l><l>वन्द्योऽयं विभुरम्भसां समभवद्गन्तं कौस्तुभ:।</l><l>चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे</l><l>यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः॥२९॥</l></lg><lg n="30"><l>नानन्दं मुचुकुन्दकुड्भलकुले नो केतके कौतुकं</l><l>नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते।</l><l>चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालतीं</l><l>किं त्वास्ते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः॥३०॥</l></lg><lg n="31"><l>अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः</l><l>प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः।</l><l>तत्ते कालं कतिपयमयं भाति खद्योतपोतं</l><l>द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः॥३१॥</l></lg><lg n="32"><l>पुष्पोत्करेषु च फलेषु च सावलेप-</l><l>स्त्वं कन्दलेषु च दलेषु च सावहेल:।</l><l>किं मुग्ध दग्धमकरोः सुरभेरगार-</l><l>मङ्गारकार सहकारमकारणेन॥३२॥</l></lg><lg n="33"><l>याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे</l><l>मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः।</l><l>तनौत्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका</l><l>तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम्॥३३॥</l></lg><lg n="34"><l>लीनः पाघरकंदरासु रचयनक्वापि स्थितिं भङ्गुरै-</l><l>रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः।</l><l>प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं</l><l>गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम्॥३४॥</l></lg><lg n="35"><l>एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता</l><l>मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च।</l><l>किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-</l><l>लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः॥३५॥</l></lg><lg n="36"><l>सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां</l><l>नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम्।</l><l>वारंवारमुदारवारणरणव्यापारपारंगमो</l><l>दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः॥३६॥</l></lg><lg n="37"><l>यत्केलिमन्थरमरालमरालबाल-</l><l>शेवालकोमलमलं विमलं मृणालैः।</l><l>तत्पश्य शुष्यति सरः प्रसरत्तुषार-</l><l>रुद्धं विरुद्धविधिरेव विधिः किमन्यत्॥३७॥</l></lg><lg n="38"><l>त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो</l><l>रोलम्बाकुलकम्प्रकुड्भलकुलल्कान्तो न कः केतकः।</l><l>दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै -</l><l>र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः॥३८॥</l></lg><lg n="39"><l>रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः</l><l>कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः।</l><l>तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः</l><l>स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः॥३९॥</l></lg><lg n="40"><l>वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-</l><l>मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम्।</l><l>देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः</l><l>पश्योदेति समुद्र मुद्रिततमस्तोमस्तमीवल्लभः॥४०॥</l></lg><lg n="41"><l>यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार-</l><l>स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः।</l><l>तत्ते पाथः पवनजनितोत्तालकल्लोलजालं</l><l>ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन॥४१॥</l></lg><lg n="42"><l>निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः</l><l>संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः।</l><l>किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते</l><l>किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः॥४२॥</l></lg><lg n="43"><l>नासीरद्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनै-</l><l>र्नि:स्यन्दै: सह वालवालवलये युक्तो निषेकक्रमः।</l><l>आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः</l><l>संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः॥४३॥</l></lg><lg n="44"><l>केलिं कल्पय कोलबाल लवलीवल्लीदलान्याहर-</l><l>नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम्।</l><l>म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चित: पञ्चतां</l><l>युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः॥४४॥</l></lg><lg n="45"><l>कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुन्द्रितं</l><l>यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः।</l><l>तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-</l><l>भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि कोऽयं क्रमः॥४५॥</l></lg><lg n="46"><l>खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलिते</l><l>पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः।</l><l>हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि</l><l>भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥</l></lg><lg n="47"><l>अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-</l><l>र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः।</l><l>एषा वैकटिक स्फुटैव पुरतः सा पामराणां पुरी</l><l>यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः॥४७॥</l></lg><lg n="48"><l>यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां</l><l>धत्ते धैर्यधुरां जगत्र्त्रयजयस्मेर: स येन स्मरः।</l><l>तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं</l><l>नाघ्रातं न निरूपितं न कलितं नोदञ्चितं नोम्भितम्॥४८॥</l></lg><lg n="49"><l>यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः</l><l>को वैरिञ्च विमानहंस भवतस्तस्मिन्निवासग्रहः।</l><l>यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्बिन्दुनि</l><l>स्वच्छन्दं तव सिद्धसिन्धुसलिले तत्रोचिताः केलयः॥४९॥</l></lg><lg n="50"><l>वापीं दूरे किरति कुरुते नो मृणालीषु लीलां</l><l>नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम्।</l><l>किं तु क्लान्तिं वहति नलिनीनाललग्नाग्रकण्ठः</l><l>क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः॥५०॥</l></lg><lg n="51"><l>शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-</l><l>रस्फोटि स्फटिकामल: करटिनां यस्मिन्नवाप्तोदये।</l><l>तं दृष्ट्वैव कुरङ्गकेतनमहो मुग्धः स दुग्धाम्बुधिः</l><l>किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोः कन्दलः॥५१॥</l></lg><lg n="52"><l>तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो</l><l>यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात्।</l><l>युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे</l><l>त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम्॥५२॥</l></lg><lg n="53"><l>कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति</l><l>प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत्।</l><l>तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं</l><l>कंदर्पैकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥५३॥</l></lg><lg n="54"><l>कंदर्पैककृपाणवल्लरि वने कमादकस्मादियं</l><l>हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः।</l><l>सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः</l><l>कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः॥५४॥</l></lg><lg n="55"><l>लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः</l><l>कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः।</l><l>सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो</l><l>हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति॥५५॥</l></lg><lg n="56"><l>ऊढापि द्युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो</l><l>मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते।</l><l>तारक्षारकरं करालमकरं सश्वभ्रमभ्रकषं</l><l>मुग्धे जाड्यनिधिं मुघा जलनिधिं यातासि चित्राः स्त्रियः॥५६॥</l></lg><lg n="57"><l>नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं</l><l>कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः।</l><l>पाने मज्जनकर्मनर्मणि तथा बाह्यैरलं वारिधे</l><l>कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः॥५७॥</l></lg><lg n="58"><l>कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां</l><l>यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः।</l><l>अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः</l><l>पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्घः स कालागुरुः॥५८॥</l></lg><lg n="59"><l>एतैर्जातै: किमिह बहुभिर्भोगिभि: किं तु मन्ये</l><l>मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।</l><l>यस्मिन्गौरी पृथुकुचत टीकुङ्कुमस्थासकाङ्के</l><l>येन स्थाणोरुरसि रहितो हारवल्लीविलासः॥५९॥</l></lg><lg n="60"><l>यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरद्रुमै-</l><l>रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति।</l><l>तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः</l><l>सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः॥६०॥</l></lg><lg n="61"><l>द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः</l><l>क्रीडाताण्डवडम्बरः शिखिकुलै: केकारवव्याकुलैः।</l><l>उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि</l><l>प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः॥६१॥</l></lg><lg n="62"><l>चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं</l><l>सङ्गं दूरीकुरु कुरबके केतके मा निषीद।</l><l>लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-</l><l>र्यत्ते दैवात्परिसरगतः पारिजातः स जातः॥६२॥</l></lg><lg n="63"><l>पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-</l><l>च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः।</l><l>माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यते</l><l>तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः॥६३॥</l></lg><lg n="64"><l>ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः</l><l>पाथोधाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः।</l><l>यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त-</l><l>त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः॥६४॥</l></lg><lg n="65"><l>ये तावन्ति पयः पृषन्ति जलदादत्यन्तमुत्कण्ठिता</l><l>याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः।</l><l>यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो</l><l>नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः॥६५॥</l></lg><lg n="66"><l>मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं</l><l>मल्लीलीलां सरसिजरसं केतकीकौतुकं च।</l><l>जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां</l><l>कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः॥६६॥</l></lg><lg n="67"><l>उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि</l><l>व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे।</l><l>यासि क्वापि मरालबालक बकक्रौञ्चाविले पल्वले</l><l>सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः॥६७॥</l></lg><lg n="68"><l>अङ्गाट्टङ्किकया  कलङ्कमतसीनीलं लुनीहि स्वयं</l><l>सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम्।</l><l>उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं</l><l>जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः॥६८॥</l></lg><lg n="69"><l>आनीतैरिषुकार कारणमिह श्लाघ्यै किमेभिः शरैः</l><l>प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि।</l><l>दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं</l><l>धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः॥६९॥</l></lg><lg n="70"><l>यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो</l><l>यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः।</l><l>तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर</l><l>त्वं मेनाक जवाज्जले जलनिधेर्मज्जन्न किं लज्जितः॥७०॥</l></lg><lg n="71"><l>त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-</l><l>न्कह्लारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम्।</l><l>शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-</l><l>स्तैर्मल्ली मुकुलैरमीलि दहनक्लान्ते वनान्ते यतः॥७१॥</l></lg><lg n="72"><l>कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं</l><l>निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः।</l><l>सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा</l><l>पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः॥७२॥</l></lg><lg n="73"><l>येन प्राप्तः सुरभितककुष्कंदरः कोऽप्युदारो</l><l>मन्दारोऽपि भ्रमररमणीदत्तरागः परागः।</l><l>स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-</l><l>दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत्॥७३॥</l></lg><lg n="74"><l>यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि</l><l>न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः।</l><l>एतत्किं तु कथं सहेमहि महद्दुःखं यदत्रामुना</l><l>निःशङ्कं कलितः शशाङ्क कलिकापीयूषपानोत्सवः॥७४॥</l></lg><lg n="75"><l>दृष्टाश्चम्पकसंपदो विच किलश्रेणी गता गोचरं</l><l>प्राप्तं केतकघाम कैरववनं दृष्टं विमृष्टं च तत्।</l><l>सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा</l><l>साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः॥७५॥</l></lg><lg n="76"><l>बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः</l><l>कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः।</l><l>तत्किंचिन्नयनाञ्जनं रतिपतिह्लादप्रदा सा गति-</l><l>स्तन्मुग्धं हसितं सदामृतरसं मुञ्चमन्कुतः पञ्चमः॥७६॥</l></lg><lg n="77"><l>मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं</l><l>मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः।</l><l>स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः</l><l>कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः॥७७॥</l></lg><lg n="78"><l>हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं</l><l>वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः।</l><l>किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः</l><l>सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः॥७८॥</l></lg><lg n="79"><l>लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते</l><l>निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह।</l><l>कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली</l><l>छाया सैव स एव सौरभभरस्ता एव पुष्पश्रिय:॥७९॥</l></lg><lg n="80"><l>कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा</l><l>झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे।</l><l>दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ</l><l>हेलैव प्लवगप्रभोः कृतजगत्पारिप्लवो विप्लव:॥८०॥</l></lg><lg n="81"><l>मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे</l><l>चूडामूले सितकरकले कल्पितोऽयं निवासः।</l><l>यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं</l><l>तत्रोन्मीलद्बकुलकलिकाकोमलं तान्तिमेति॥८१॥</l></lg><lg n="82"><l>वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं</l><l>दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम्।</l><l>तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-</l><l>प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः॥८२॥</l></lg><lg n="83"><l>कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता-</l><l>मूर्वीमेष बिभर्ति सागरसरिद्गर्वी गिरिग्रामणीः।</l><l>लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे</l><l>चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः॥८३॥</l></lg><lg n="84"><l>लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां</l><l>केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः।</l><l>मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां</l><l>विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः॥८४॥</l></lg><lg n="85"><l>हंस भ्राम्यदनेक भेकशबले पङ्काविले पल्वले</l><l>युक्तास्ते किमसारवारिणि रणत्कौञ्चाकुले केलयः।</l><l>तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं</l><l>वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः॥८५॥</l></lg><lg n="86"><l>कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी</l><l>तं विक्रेतुमिहासि यासि किमहो हारं विहारं श्रियः।</l><l>एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां</l><l>यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः॥८६॥</l></lg><lg n="87"><l>लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं</l><l>यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः।</l><l>तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-</l><l>र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः॥८७॥</l></lg><lg n="88"><l>यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं</l><l>यस्य स्यात्कुचकुड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम्।</l><l>नेदं तस्य जनैकनन्दन सहे हे चन्दन क्वापि ते</l><l>मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः॥८८॥</l></lg><lg n="89"><l>बालैः पञ्चशरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः</l><l>शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्ककारः स्मरः।</l><l>सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके</l><l>तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः॥८९॥</l></lg><lg n="90"><l>मुग्धा वृथा कुमुदिनीरमणे चकोराः</l><l>को राग एष जडिमाग्लपिता मतिर्वः।</l><l>एतन्न पश्यथ मुखं मदिरेक्षणानां</l><l>यस्मिन्स किंकरति कैरविणीकुटुम्बः॥९०॥</l></lg><lg n="91"><l>न कुन्दं सामोदं जनयति मुदं नैव कुमुदं</l><l>न सारं कह्लारं कुसुमतिलकं नैव तिलकम्।</l><l>उदात्तं निर्धूतं न च कमलमावर्जकमलं</l><l>तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम्॥९१॥</l></lg><lg n="92"><l>निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः</l><l>शेवालैर्बिसकन्दलैरविरलैर्बालैर्मृणालीदलैः।</l><l>हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं</l><l>लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः॥९२॥</l></lg><lg n="93"><l>वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां</l><l>खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः।</l><l>व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-</l><l>दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः॥९३॥</l></lg><lg n="94"><l>कंचित्कालं नय गिरिगुहागह्लरे रे मुधैव</l><l>क्रीडन्हालाहलरसलसद्दर्प मा सर्प सर्प।</l><l>माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले</l><l>येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः॥९४॥</l></lg><lg n="95"><l>चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे</l><l>कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु यत्कौतुकम्।</l><l>किं कुर्मस्तदमुत्र पामरपुरे सैरंध्रि दूरेऽस्तु ते</l><l>वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम्॥९५॥</l></lg><lg n="96"><l>यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-</l><l>माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः।</l><l>तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं</l><l>नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः॥९६॥</l></lg><lg n="97"><l>माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं</l><l>मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव।</l><l>तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर</l><l>स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम्॥९७॥</l></lg><lg n="98"><l>अम्भोजैर्गलितं तटैर्विघटितं हंसैद्रुतं विद्रुतं</l><l>वापीभिर्विरतं पुरैव पतितैरद्या विलैस्त्वज्जलैः।</l><l>हा धिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे</l><l>प्रारब्धोऽयमतानवैरभिनवैर्वा रिप्लवैर्विप्लव:॥९८॥</l></lg><lg n="99"><l>तापातङ्कं कलय विलयं याहि हे दुर्निवारं</l><l>वारं वारं विगलितगतिर्नेह दाहं सहेथाः।</l><l>दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो</l><l>नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः॥९९॥</l></lg><lg n="100"><l>यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां</l><l>तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः।</l><l>साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया</l><l>पौलोम्या निहितालवालपयसः कल्पद्रुमस्य क्षमः॥१००॥</l></lg><lg n="101"><l>लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरं</l><l>किं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः।</l><l>तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-</l><l>लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः॥१०१॥</l></lg><lg n="102"><l>उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका</l><l>नास्मिन्कोमलकुड्भला विचकिला नोद्दीपकाश्चम्पकाः।</l><l>तत्किं मुग्ध मुधैव दग्धसिकतागर्भः सदर्भों मरो</l><l>मार्ग: पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः॥१०२॥</l></lg><lg n="103"><l>वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथा</l><l>कर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः।</l><l>तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते</l><l>खात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः॥१०३॥</l></lg><lg n="104"><l>एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-</l><l>रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः।</l><l>केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि</l><l>द्राक्कल्लोलविकार कल्पितजगत्कम्पेऽपि झम्पारसः॥१०४॥</l></lg><lg n="105"><l>साश्चर्या : सरसाश्च सन्ति सरितः पाथः पतिप्रेयसि</l><l>क्षोणी विभ्रम वैजयन्ति तदपि त्वां ताम्रपर्णि स्तुमः।</l><l>खच्छे निर्जितनारिकेलसलिलखादिम्नि यद्वारिणि</l><l>प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः॥१०५॥</l></lg><lg n="106"><l>इयं यदि रदच्छदच्छविरपाटला पाटला</l><l>नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम्।</l><l>किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः</l><l>क्व न भ्रमरयोषितां गलदहंकृतिर्हुकृति:॥१०६॥</l></lg><lg n="107"><l>उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी</l><l>हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः।</l><l>अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे</l><l>पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः॥१०७॥</l></lg><lg n="108"><l>या लक्ष्मीः स्मरकार्मुके स्फुरति या बाले प्रवाले रुचि-</l><l>र्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिते विभ्रमः।</l><l>या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टुं तदेकत्र चे-</l><l>च्चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रुवः॥१०८॥</l></lg></body></text></TEI>