This page has not been fully proofread.

प्रतिषेधप्रतिषेधोऽप्येवमिति मतं भवेत्तदसदेव ॥
एवं तव प्रतिज्ञा लक्षणतो दूप्यते न मम ॥ ४ ॥
 
स्यात्ते वुद्धिः, प्रतिषेधप्रतिषेधोऽप्यनेनैव कल्पेनानुपपन्न:, तत्र यद्भवान् सर्वभाव-
स्वभावप्रतिषेधवचनं प्रतिषेधयति तदनुपपन्नमिति । अत्र वयं ब्रूमः । एतसदप्यसदेव ।
कस्मात् । तव हि (एतत् ? ) प्रतिज्ञालक्षणप्राप्तं न मम । भवान् ब्रवीति शून्याः सर्वभाव ।
इति नाम् । पूर्वकः पक्षो न मम । तत्र यदुक्तं प्रतिषेधप्रतिषेधोप्येवं सत्यनुपपन्न इति
तन्न । किञ्चान्यत्
 
प्रत्यक्षेण हि तावद् यद्युपलभ्य विनिवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ ५॥
 
यदि प्रत्यक्षतः सर्वभावानुपलभ्य भावान्निवर्तयति शून्याः सर्वभावा इति तदनुपपन्नम्।
कस्मात् । प्रत्यक्षमपि हि प्रमाणं सर्वभावान्तर्गतत्वाच्छून्यम् । यो भावानुपलभते सोऽपिां
शून्यः । तस्मात् प्रत्यक्षेण प्रमाणेन नोपलंभभावः, अनुपलब्धस्य च प्रतिषेधानुपपत्तिः ।
तत्र यदुक्तं शून्याः सर्वभावा इति तदनुपपन्नम् । स्यात्ते बुद्धिः, अनुमानेनागमेनोपमानेन
वा सर्वभावानुपलभ्य सर्वभावव्यावर्तनं क्रियत इति, अत्र ब्रूमः ।
 
अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमान च ॥
अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥६॥
 
• अनुमानोपमानागमाश्च प्रत्यक्षेण प्रमाणेन प्रत्युक्ताः । यथा हि प्रत्यक्षं प्रमाणं
शून्यम्, सर्वभावानां शून्यत्वादेवमनुमानोपमानागमा अपि शून्याः सर्वभावानां
शून्यत्वात् । येऽनुमानसाध्या अर्था आगमसाध्या उपमानसाध्याश्च तेऽपि शून्याः ।
सर्वभावानां शून्यत्वात् । अनुमानोपमानागमैश्च यो भावानुपलभते सोऽपि शून्य:
तस्माद्भावानामुपलम्भाभावोऽनुपलब्धानाञ्च स्वभावप्रतिषेधानुपपत्तिः । तत्र यदुक्तं
शून्याः सर्वभावा इति तन्न ।
 
किञ्चान्यत
 
"