This page has not been fully proofread.

पदार्हा इति युष्मत्पैदानि प्रदास्यति पदार्हेभ्यः । भव-
त्पराक्रमदिह्क्षयैव विरूपाक्षः क्षणमात्रमुदास्ते इति
लक्ष्यामि! युष्मत्पराजयकाले च स कालकाल: खेल-
यैव नाशयिष्यति त्रिपुरदानवान्। तदुत्संहध्वं प्रदर्शयत
च यथाशक्ति पराक्रमं च इति।
 
इत्थं शनैस्तेन विबोध्यमानाः
पुरन्दराया हरितामधीशाः।
पराक्रम कर्तुमनुक्रमेण
प्रतस्थिरे कार्मुकबाहवस्ते ॥ ७ ॥
 
ततस्स्थित्वा पुरा हन्तुः पुरस्तात त्रिदशेश्वशः।
ववर्षः शरजालानि निर्भयास्त्रिपुरेश्वरे ॥७॥
 
दिक्पतिमुक्तान विशिखान साहाय्यकृते समीरणस्त्वस्तिः ।
वेगाचकर्ष लक्ष विमुखीचक्रे च दैत्येषून ॥९॥
 
1..A omits पदानि
 
2. M उत्साह ध्वस
 
3. A. पुराहन्तुं
 
4. M - निर्भयः
 
74