This page has been fully proofread once and needs a second look.

१३६
 
काव्यमाला ।
 
भवमहार्णवनिस्तरणप्लवः प्रवरसूरिमयूरघनारवः ।

हृदयदाहहृतावमृतद्रवः कुमुदिनीरमणाभरणस्तवः ॥ ३ ॥ (युग्मम् )

 
कुमुदिनीरमणाभरणस्तवश्चन्द्राभरणस्य श्रीशिवस्य स्तवो जयति सर्वोत्कृष्टो भवति ।

स कः । भक्तिलतानवमाधवः । कायवाङ्मनोभिस्तदुपासनासक्तिर्भक्तिः सैव लता तस्या

नवः प्रत्यप्ग्रागतो मावो वसन्तः । विकासक इत्यर्थः । पुनः कः । सुकृतं प्राक्तनानेक-

जन्मार्जितं पुण्यमेव पादपः शाखी तस्य यत्पक्कंवं परिपाकवत्फलं तस्योद्भव उदयः ।

पुनश्च कः । विपज्जन्मजरामरणव्याधिरूपैवोपद्रव उपप्लवस्तेन ये विक्लवास्तेषां बा-

न्धवः । आश्वासक इत्यर्थः । पुनः कः । सुकवीनां महाकवीनां या सुशोभना प्रौढा

उक्तिः सैव वधूर्वराङ्गना तस्य वदनासवो मुखासवः । पुनः कः । भवः संसार एव महा-

र्णवस्तस्मान्निस्तरणं तत्र प्लवः पोतः । पुनः कः । प्रवरा वरेण्या ये सूरयः पण्डितास्त

एव मयूरास्तेषां घनारवः प्रावृषेण्यमेघशब्दः । पुनः कः । अमृतद्रवः । कुत्र । हृदयस्य

दाहस्तस्य हृतिस्तस्याम् ॥
 

वृत्तेनैकेन कविकाव्यप्रशंसां करोति-

 
मधुरमिन्दुमुखीवदनादपि क्लमहरं सुरसिन्धुजलादपि ।
 

त्रिभुवनाधिपतिस्तुतिपावनं जयति सत्कविसूक्तिरसायनम् ॥ ४ ॥

 
सत्कविसूक्तिरसायनं सत्कवीनां महाकवीनां शोभनाः प्रौढा या उक्तयस्ता एव

रसायनममृतं जयति सर्वोत्कृष्टं भवति । किंभूतम् । त्रिभुवनाधिपतेस्त्रिलोकनाथस्य या

स्तुतिस्तया पावनं पवित्रम् । इन्दुमुखीवदनादपि चन्द्रवदनामुखादपि मधुरं रमणीयम् ।

'स्वादे रम्ये च मधुरं' इति । तथा सुरसिन्धुजलादपि गङ्गाजलादपि क्लमहरं खेदहृत् ।

भवमरुभ्रमणजक्लमहरं च ॥
 

 
नवनवभ्रमरस्वनशोभिनी भवमरुभ्रमघर्मशमक्षमा ।
 

हृदयनन्दचन्दनकन्दली जयति शंकरभक्तिरभङ्गुरा ॥ ५ ॥

 
अभकुङ्गुरा अव्युच्छिन्ना शंकरभक्तिः श्रीशिवभक्तिर्जयति सर्वोत्कृष्टा भवति । सा का

इत्यारोपेण विशेषयति — हृदयमेव नन्दनं देवोद्यानं तत्र चन्दनकन्दली चन्दनलता हृद-

यस्य नन्दनं परमानन्दस्तत्र वा । किंभूता श्रीशिवभक्तिः । नवाः प्रत्यप्ग्राश्च ते नवाः
स्

स्त
वास्त एव भ्रमरास्तेषां स्वनेन शब्देन शोभते तादृशी । पुनः किंभूता । भवः संसार

एव मरुर्निर्जलो देशस्तत्र भ्रमेण यो घर्मस्तस्य शमे क्षमा । चन्दनलतापि नवनवालि-

स्वनशोभिनी मरुभ्रमघर्मशमक्षमा च भवति ॥
 

 

 
अथ कथंचन रूढमपि क्षणं मनसि वीक्ष्य विवेकनवाङ्करम् ।

बहुविधव्यसनौघविघट्टितं सपदि विज्ञपयामि जगद्गुरुम् ॥ ६ ॥

 
अथानन्तरं कथंचन कष्टे सति मनसि चित्ते रूढमपि क्षणं विवेकनवाङ्कुरं विचाररू-
Digitized by Google