This page has not been fully proofread.

१३६
 
काव्यमाला ।
 
भवमहार्णवनिस्तरणठवः प्रवरसूरिमयूरघनारवः ।
हृदयदाहहतावमृतद्रवः कुमुदिनीरमणाभरणस्तवः ॥ ३ ॥ (युग्मम् )
कुमुदिनीरमणाभरणस्तवश्चन्द्राभरणस्य श्रीशिवस्य स्तवो जयति सर्वोत्कृष्टो भवति ।
स कः । भक्तिलतानवमाधवः । कायवाङ्मनोभिस्तदुपासनासक्तिर्भक्तिः सैव लता तस्या
नवः प्रत्यप्रागतो माघवो वसन्तः । विकासक इत्यर्थः । पुनः कः । सुकृतं प्राक्तनानेक-
जन्मार्जितं पुण्यमेव पादपः शाखी तस्य यत्पक्कं परिपाकवत्फलं तस्योद्भव उदयः ।
पुनश्च कः । विपज्जन्मजरामरणव्याधिरूपैवोपद्रव उपलवस्तेन ये विक्लवास्तेषां बा-
न्धवः । आश्वासक इत्यर्थः । पुनः कः । सुकवीनां महाकवीनां या सुशोभना प्रौढा
उक्तिः सैव वधूर्वराङ्गना तस्य वदनासवो मुखासवः । पुनः कः । भवः संसार एव महा-
•र्णवस्तस्मान्निस्तरणं तत्र प्लवः पोतः । पुनः कः । प्रवरा वरेण्या ये सूरयः पण्डितास्त
एव मयूरास्तेषां घनारवः प्रावृषेण्यमेघशब्दः । पुनः कः । अमृतद्रवः । कुत्र । हृदयस्य
दाहस्तस्य हृतिस्तस्याम् ॥
 
वृत्तेनैकेन कविकाव्यप्रशंसां करोति-
मधुरमिन्दुमुखीवदनादपि महरं सुरसिन्धुजलादपि ।
 
त्रिभुवनाधिपतिस्तुतिपावनं जयति सत्कविसूक्तिरसायनम् ॥ ४ ॥
सत्कविसूक्तिरसायनं सत्कवीनां महाकवीनां शोभनाः प्रौढा या उक्तयस्ता एव
रसायनममृतं जयति सर्वोत्कृष्टं भवति । किंभूतम् । त्रिभुवनाधिपतेस्त्रिलोकनाथस्य या
स्तुतिस्तया पावनं पवित्रम् । इन्दुमुखीवदनादपि चन्द्रवदनामुखादपि मधुरं रमणीयम् ।
'स्वादे रम्ये च मधुरं' इति । तथा सुरसिन्धुजलादपि गङ्गाजलादपि क्लमहरं खेदहृत् ।
भवमरुभ्रमणजक्लमहरं च ॥
 
नवनवभ्रमरस्वनशोभिनी भवमरुभ्रमघर्मशमक्षमा ।
 
हृदयनन्दचन्दनकन्दली जयति शंकरभक्तिरभङ्गुरा ॥ ५ ॥
अभकुरा अव्युच्छिन्ना शंकरभक्तिः श्रीशिवभक्तिर्जयति सर्वोत्कृष्टा भवति । सा का
इत्यारोपेण विशेषयति — हृदयमेव नन्दनं देवोद्यानं तत्र चन्दनकन्दली चन्दनलता हृद-
यस्य नन्दनं परमानन्दस्तत्र वा । किंभूता श्रीशिवभक्तिः । नवाः प्रत्यप्राश्च ते नवाः
स्वास्त एव भ्रमरास्तेषां स्वनेन शब्देन शोभते तादृशी । पुनः किंभूता । भवः संसार
एव मरुर्निर्जलो देशस्तत्र भ्रमेण यो घर्मस्तस्य शमे क्षमा । चन्दनलतापि नवनवालि-
स्वनशोभिनी मरुभ्रमघर्मशमक्षमा च भवति ॥
 

 
अथ कथंचन रूढमपि क्षणं मनसि वीक्ष्य विवेकनवाङ्करम् ।
बहुविधव्यसनौघविघट्टितं सपदि विज्ञपयामि जगद्गुरुम् ॥ ६ ॥
अथानन्तरं कथंचन कष्टे सति मनसि चित्ते रूढमपि क्षणं विवेकनवाङ्कुरं विचाररू-
Digitized by Google