Proofing

2026-05-10 02:59:50 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६९२
 
देवीस्तोत्रेषु
 
</ignore>
<verse>
श्रीमद्वनाद्रितटगस्य सुसुन्दरस्य

दोर्दण्डषण्डसुविहारिणि सिन्धुकन्ये ।

त्वद्वीक्षणैर्विलसितः स्तिमितैः शुभैश्च
 

लक्ष्मि त्वमेव परिपालय दुर्बलं माम् ॥ २ ॥
 
</verse>
<verse>
दयानिधे कोमलदिव्यगात्रे
 

शुचिस्मिते निर्मलचन्द्रवक्त्रे ।

सरोजकान्तायतलोचने त्वं
 

ममाधिकन्ये सुसुखं प्रदेहि ॥ ३ ॥
 
</verse>
<verse>
पिता च माता च गुरुश्च बन्धुः

त्वमेव सर्वं मम सिन्धुकन्ये ।

पदारविन्दे शरणं गतं मां
 

ततस्तु ते पालय लोकमातः ॥ ४ ॥
 
</verse>
<verse>
मणिसङ्घभूषणगणैरलङ्कृते

गणनाविहीन सुगुणैर्विभूषिते ।

अपि मां सुधाब्धितनये शुचिस्मिते

गुणहीनकं च परिपालयेन्दिरे ॥ ५ ॥
</verse>
<verse>
वनशैलनाथदयिते दयानिधे
 

भुवनाधिपेश्वरि शुचिस्मितानने ।

नलिनायताक्षि नमतां सुखप्रदे
 

तव पादपङ्कजयुगं भजे सदा ॥ ६ ॥
 
</verse>
<verse>
वृषाचलेशस्य सुसुन्दरस्य

भुजान्तरारामयथेच्छलीले ।
 

गुणेन रूपेण विलासितस्त्वं
 
रमे सदानन्दयसे मुकुन्दम् ॥ ७ ॥
 
मुकुन्दवक्षःस्थलदिव्यलीला-
 
विलासितैस्त्वं
रमे सदानन्दयसे मुकुन्दम् ॥ ७ ॥</verse>
<verse>मुकुन्दवक्षःस्थलदिव्यलीला-
विलासितैस्त्वं
वनशैलराजम् ।

त्वदङ्गसौन्दर्य सदाविमुग्धं
 

हरिप्रिये नन्दयसे त्वदीशम् ॥ ८ ॥
 
</verse>
<verse>
सर्वाङ्गसुन्दर हरिस्तव दिव्यागात्र-
 

सौन्दर्य मज्जित हृदस्त मितान्यभावः ।

त्वां वीक्षते सततमब्धिसुते सुशीले
 

सौन्दर्यवल्लि कमले परिपाहि मां त्वम् ॥ ९ ॥
 
</verse>
</page>