Proofing

2026-05-10 02:57:14 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीवानाद्रिनाथदयितास्तोत्रम्
 
६९१</ignore>
<verse>
एवं भावयता तेन बृहस्पतिरपि स्वयम् ।
 

न शक्नोति परं वक्तुं नरेष्वन्येषु का कथा ॥ २६॥
</verse>
<verse>
न काञ्चन स्त्रियं निन्देत् न देवान्नापि च द्विजान् ।

अनार्यैर्नाभिभाषेत सर्वत्रैव क्षमी भवेत् ॥ २७ ॥
</verse>
<verse>
सर्वत्रैव प्रियं ब्रूयात् <add>[यथेच्छालब्ध]</add>मात्मनः ।

लोकैरेव तिरस्कृत्य द्विषन्तं प्रतिवादिनम् ॥ २८ ॥
</verse>
<verse>
प्रतिवादिगजानां तु सिंहो भवति तद्वचः ।

यद्वागितिद्व्यृचेनैव देवीं योऽर्चति सुव्रतः ॥ २९ ॥
</verse>
<verse>
तस्य नासंस्कृता वाणी मुखादुच्चारिता क्वचित् ।

प्रथमं भारती नाम द्वितीयं च सरस्वती ।

तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ ३० ॥
 
</verse>
<verse>
पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।

सप्तमं चैव कामक्षी ह्यष्टमं ब्रह्मचारिणी ॥ ३१ ॥
</verse>
<verse>
नवमं चैव वाराही दशमं ब्रह्मपुत्रिका ।
 

एकादशं च वाग्देवी द्वादशं वरदाम्बिका ॥ ३२ ॥
 
</verse>
<verse>
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

तस्य सारस्वतं चैव षण्मासेनैव सिध्यति ॥ ३३ ॥
</verse>
<verse>
यस्याः स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ।

सा भारती प्रसन्नाक्षी रमतां मन्मुखाम्बुजे ॥ ३४॥
</verse>
<verse>
इत्याश्वलायनमुनिर्निजगाद देव्याः
 

स्तोत्रं समस्तफलभोगनिधानभूतम् ।

एतत् पठन् द्विजवरः शुचितामुपैति
 

सन्ध्यासु वाञ्छितमुपैति न संशयोऽत्र ॥ ३५ ॥
</verse>
<trailer text="25_END">
॥ इति श्रीसरस्वतीदशश्लोकीस्तोत्रं सम्पूर्णम् ॥
 
</trailer>
<title text="26_START">
२६. ॥ अथ श्रीवानाद्रिनाथदयितास्तोत्रम् ॥
 
</title>
<verse>
मातः समस्तजगतां वनशैलनाथ-
 

वक्षोविहारिणि मनोहरदिव्यवक्त्रे ।

श्रीभूषणैर्मणिमयैः शुभदिव्यगात्रे
 

त्वत्पादपङ्कजयुगं शरणं प्रपद्ये ॥ १ ॥
 
६९१
 
</verse>
</page>