Proofing

2026-05-10 02:54:27 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६९०
 
देवीस्तोत्रेषु
 
</ignore>
<verse>
या साङ्गोपाङ्गवेदेषु चतुर्वेकैव गीयते ।

अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ११ ॥
</verse>
<verse>
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।

अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ १२ ॥
 
</verse>
<verse>
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
 

प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ १३ ॥
</verse>
<verse>
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।

रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ १४ ।
</verse>
<verse>
या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते ।

व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ १५ ॥
</verse>
<verse>
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।

निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ १६ ॥
</verse>
<verse>
व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम ।
म् ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ १७
॥</verse>
<verse>
यां विदित्वाखिलं बन्धं निर्मध्यामलवर्त्मना ।

योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १८ ॥
</verse>
<verse>
नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः ।

ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती <add>?</add> ॥ १९॥
</verse>
<verse>
यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति ।

सोऽभ्यर्च्यैनां दशश्लोक्या भक्त्या स्तोतौतु सरस्वतीम् ॥ २० ॥
</verse>
<verse>
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।

भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ २१ ॥
 
</verse>
<verse>
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।

गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ २२ ॥
 
</verse>
<verse>
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।

श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ २३ ॥
 
</verse>
<verse>
प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः ।

अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ २४ ॥
</verse>
<verse>
अयोध्यायैर्वेदबाह्यैर्वा विवादे प्रस्तुते सति ।
 

अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ २५ ॥
 
</verse>
</page>