Proofing

2026-04-03 16:54:18 by ambuda-bot

This page has not been fully proofread.

६९०
 
देवीस्तोत्रेषु
 
या साङ्गोपाङ्गवेदेषु चतुर्वेकैव गीयते ।
अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती ॥ ११ ॥
या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते ।
अनादिनिधनानन्ता सा मां पातु सरस्वती ॥ १२ ॥
 
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी ।
 
प्रत्यगात्मेव सन्ती या सा मां पातु सरस्वती ॥ १३ ॥
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति ।
रूद्रादित्यादिरूपस्था सा मां पातु सरस्वती ॥ १४ ।
या प्रत्यग्दृष्टिभिर्ज्ञानैर्व्यज्यमानानुभूयते ।
व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती ॥ १५ ॥
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता ।
निर्विकल्पात्मिका चैव सा मां पातु सरस्वती ॥ १६ ॥
व्यक्ताव्यक्तगिरः सर्वे देवाद्या व्याहरन्ति याम ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ १७ ।
यां विदित्वाखिलं बन्धं निर्मध्यामलवर्त्मना ।
योगी याति परं स्थानं सा मां पातु सरस्वती ॥ १८ ॥
नामजात्यादिकं सर्वं यस्यामाविश्य तां पुनः ।
ध्यायन्ती ब्रह्मरूपैका सा मां पातु सरस्वती ? ॥ १९॥
यः कवित्वं निरातङ्कं भुक्तिं मुक्तिं च वाञ्छति ।
सोऽभ्यच्यैनां दशश्लोक्या भक्त्या स्तोतु सरस्वतीम् ॥ २० ॥
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् ।
भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत् ॥ २१ ॥
 
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा ।
गद्यपद्यात्मिका विद्या प्रमेयैश्च विवर्तते ॥ २२ ॥
 
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ।
श्रुतं च धारयेदाशु स्खलद्वाक् स्पष्टवाग्भवेत् ॥ २३ ॥
 
प्रख्यातः सर्वलोकेषु वाग्मी भवति पूजितः ।
अजितः प्रतिपक्षाणां स्वयं जेताऽधिजायते ॥ २४ ॥
अयोध्या विवादे प्रस्तुते सति ।
 
अहं वाचस्पतिर्विष्णुः शिवो वास्मीति भावयेत् ॥ २५ ॥