Stotrarnava /59
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीविघ्नेश्वरगीतम्</ignore>
<verse>निर्द्वन्द्व निर्गुणाभास जपापुष्पसमप्रभ ।
<ref>1</ref>सर्वप्रमथसंस्तुत्य त्राहि मां विघ्ननायक ॥ १६ ॥</verse>
<verse>कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक ।
सर्वाभीष्टप्रद स्वामिन् सर्वप्रत्यूहनाशक ॥ १७ ॥</verse>
<verse>शरण्य सर्वलोकानां शरणागतवत्सल ।
महागणपते नित्यं मां पालय कृपानिधे ॥ १८ ॥</verse>
<verse>एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् ।
यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥ १९ ॥</verse>
<verse>अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् ।
वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥ २० ॥</verse>
<verse>रमते देवकन्याभिः स नित्यं साधकोत्तमः ।
सर्वान् भोगान् प्रभुङ्क्तेऽसौ दुर्लभांच दिने दिने ॥ २१ ॥</verse>
<verse>सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् ।
महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥ २२ ॥</verse>
<trailer text="END">॥ इति <add>[ श्रीरुद्रयामले ]</add> श्रीविनायकस्तवराजः सम्पूर्णः ॥</trailer>
<title text="G_START">८. ॥ श्रीविघ्नेश्वरगीतम् ॥</title>
<verse>विशदवाससं विस्तृतोरसं विमलतेजसं विद्धराक्षसम् ।
विगततामसं विष्टरौकसं विभुमुपास्महे विघ्ननायकम् ॥ १ ॥</verse>
<verse>विधिहरिस्तुतं विष्टरस्थितं विपुललोचनं वीर्यशालिनम् ।
विकटविक्रमं विद्ययावृतं विभुमुपास्महे विघ्ननायकम् ॥ २ ॥</verse>
<verse>विबुधसत्तमं विप्रपूजितं विधु<ref>2</ref>कुलोज्ज्वलं विघ्ननाशनम् ।
विधृतभूषणं वीतरागिणं विभुमुपास्महे विघ्ननायकम् ॥ ३ ॥</verse>
<verse>विभवसंयुतं विभ्रमान्वितं विषधरेट्तनूवेष्टितोदरम् ।
विनुतपौरुषं <delete>विस्तरा</delipsis>विस्तरा</ellipsisete><add>[विस्तृता]</add>लिकं विभुमुपास्महे विघ्ननायकम् ॥ ४ ॥</verse>
<verse>विमतमर्दनं विश्वनायकं वितरणोत्सुकं वारणाननम् ।
विचलितश्रुतिं वीतकल्मषं विभुमुपास्महे विघ्ननायकम् ॥ ५ ॥</verse>
<trailer text="G_END">॥ इति श्रीविघ्नेश्वरगीतं सम्पूर्णम् ॥</trailer>
<footnote>1. प्रथम</footnote>
<footnote>2. क.</footnote>
</page>

विनुतपौरुषं <delete>विस्तरा</del