Stotrarnava /59
This page has been fully proofread once and needs a second look.
<ignore>श्रीविघ्नेश्वर
<verse>निर्द्वन्द्व निर्गुणाभास जपापुष्पसमप्रभ ।
'
<ref>1</ref>सर्वप्रमथसंस्तुत्य त्राहि मां वि
<verse>कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक ।
सर्वाभीष्टप्रद स्वामिन् सर्व
<verse>शरण्य सर्वलोकानां शरणागतवत्सल ।
महागणपते नित्यं मां पालय कृपानिधे ॥ १८ ॥
<verse>एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् ।
यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥ १९ ॥
<verse>अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् ।
वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥ २० ॥
<verse>रमते देवकन्याभिः स नित्यं साधकोत्तमः ।
सर्वान् भोगान् प्रभुङ्क्तेऽसौ दुर्लभांच दिने दिने ॥ २१ ॥
<verse>सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् ।
महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥ २२ ॥
<trailer text="END">॥ इति <add>[ श्रीरुद्रयामले ]</add> श्रीविनायकस्तवराजः सम्पूर्णः ॥
<title text="G_START">८. ॥ श्रीविघ्नेश्वर
<verse>विशदवाससं विस्तृतोरसं विमलतेजसं विद्धराक्षसम् ।
विगततामसं विष्टरौकसं विभुमुपास्महे विघ्ननायकम् ॥ १ ॥
<verse>विधिहरिस्तुतं विष्टर
विकटविक्रमं विद्ययावृतं विभुमुपास्महे विघ्ननायकम् ॥ २ ॥
<verse>विबुधसत्तमं विप्रपूजितं विधु
विधृतभूषणं वीतरागिणं विभुमुपास्महे विघ्ननायकम् ॥ ३ ॥
<verse>विभवसंयुतं विभ्रमान्वितं विषधरेट्तनूवेष्टितोदरम् ।
१३
विनुतपौरुषं <ellipsis>विस्तरा
<verse>विमतमर्दनं विश्वनायकं वितरणोत्सुकं वारणाननम् ।
विचलितश्रुतिं वीतकल्मषं विभुमुपास्महे विघ्ननायकम् ॥ ५ ॥
1. प्रथम
<trailer text="G_END">॥ इति श्रीविघ्नेश्वरगीतं सम्पूर्णम् ॥
<footnote>1. प्रथम</footnote>
<footnote>2. क.
</page>