Proofing

2026-04-26 04:57:48 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>श्रीविनायकस्तवराजः ११</ignore>
<verse>इन्द्रोऽमरावतीं लब्ध्वा पठनात् कवचस्य तु ।
देवनामाधिपत्यं वै तथावाप महेश्वरि ॥ २२ ॥</verse>
<verse>सृष्टिं वितनुते ब्रह्मा स्थितिं वितनुते हरिः ।
संहारं तनुते रुद्रोऽप्यहमेव न संशयः ॥ २३ ॥</verse>
<verse>भजेद्विलिख्य कवचं धारयेद्भक्तितः परम् ।
यं यं चिन्तयते लोके तं तं प्राप्नोति सर्वदा ॥ २४ ॥</verse>
<verse>गन्धर्वो गायते धीरः सर्वलोकवशंकरः ।
कामतुल्योऽपि नारीणां योगी योगपतिर्यथा ॥ २५ ॥</verse>
<verse>न देयं परशिष्येभ्यो देयं शिष्येभ्य एव च ।
अप्रशिष्याय दुष्टाय कृतघ्नाय दुरात्मने ॥ २६ ॥</verse>
<verse>भक्तिश्रद्धाविहीनाय पर निन्दापराय च ।
यो ददाति निषिद्धेभ्यो कवचं परमाद्भुतम् ॥ २७ ॥</verse>
<verse>तस्य नश्यन्ति देवेशि पुत्रायुःकीर्तिसम्पदः ।
शिष्याय भक्तियुक्ताय गुरुभक्तिरताय <add>[च]</add> ॥ २८ ॥</verse>
<verse>शान्ताय विष्णुभक्ताय शिवपूजापराय च ।
देव्यर्चनपरायास्मै स्वजनाय महात्मने ॥ २९ ॥</verse>
<verse>ददाति चेद्यत् कवचं शीघ्रसिद्धिप्रदं भवेत् ।
एतत् कवचमज्ञात्वा यो जपेच्च गणाधिपम् ॥ ३० ॥</verse>
<verse>दारिद्र्यं परमं लब्ध्वा <ref>2</ref>सोऽचिरान्मृत्युमाप्नुयात् ।
ज्ञात्वा तु कवचं यो वै जपेद्भक्तिपुरःसरम् ॥ ३१ ॥</verse>
<verse>जपान्ते कवचं दिव्यं पठेन्नित्यं नियन्त्रितः ।
सर्वान् कामान् समासाद्य गणेशस्य प्रियो भवेत् ॥ ३२ ॥</verse>
<trailer>॥ इति <add>[श्रीरुद्रयामले श्रीपार्वतीपरमेश्वरसंवादे]</add>
श्री महागणपतिकवचं समाप्तम् ॥</trailer>
<title>19 text="7_START">७. ॥ श्रीविनायकस्तवराजः ॥</title>
<verse>बीजापूरगदेक्षुकार्मुक<ref>3</ref>रुजा चक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो <ref>4</ref>विघ्नेश इष्टार्थदः ॥ १ ॥</verse>
<footnote>1. तिं</footnote>
<footnote>2. यो</footnote>
<footnote>3. लसच्चक्राब्जं</footnote>
<footnote>4. विघ्नोविशिष्टार्थदः</footnote>
</page>