Proofing

2026-04-26 04:54:44 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीविनायकस्तवराजः
 
११</ignore>
<verse>
इन्द्रोऽमरावतीं लब्ध्वा पठनात् कवचस्य तु ।

देवनामाधिपत्यं वै तथावाप महेश्वरि ॥ २२ ॥
</verse>
<verse>
सृष्टिं वितनुते ब्रह्मा स्थितिं वितनुते हरिः ।

संहारं तनुते रुद्रोऽप्यहमेव न संशयः ॥ २३ ॥
</verse>
<verse>
भजेद्विलिख्य कवचं धारयेद्भक्तितः परम् ।
 

यं यं चिन्तयते लोके तं तं प्राप्नोति सर्वदा ॥ २४ ॥
</verse>
<verse>
गन्धर्वो गायते धीरः सर्वलोकवशंकरः ।

कामतुल्योऽपि नारीणां योगी योगपतिर्यथा ॥ २५ ॥
</verse>
<verse>
न देयं पर शिष्येभ्यो देयं शिष्येभ्य एव च ।

अप्रशिष्याय दुष्टाय कृतघ्नाय दुरात्मने ॥ २६ ॥
</verse>
<verse>
भक्तिश्रद्धाविहीनाय पर निन्दापराय च ।
 

यो ददाति निषिद्धेभ्यो कवचं परमाद्भुतम् ॥ २७ ॥
</verse>
<verse>
तस्य नश्यन्ति देवेशि पुत्रायुः कोकीर्तिसम्पदः ।

शिष्याय भक्तियुक्ताय गुरुभक्तिरताय <add>[च]</add> ॥ २८ ॥
</verse>
<verse>
शान्ताय विष्णुभक्ताय शिवपूजापराय च ।

देव्यर्चनपरायास्मै स्वजनाय महात्मने ॥ २९ ॥
</verse>
<verse>
ददाति चेद्यत् कवचं शीघ्रसिद्धिप्रदं भवेत् ।

एतत् कवचमज्ञात्वा यो जपेच्च गणाधिपम् ॥ ३० ॥
</verse>
<verse>
दारिद्र्यं परमं लब्ध्वा <ref>2</ref>सोऽचिरान्मृत्युमाप्नुयात् ।

ज्ञात्वा तु कवचं यो वै जपेद्भक्तिपुरःसरम् ॥ ३१ ॥
</verse>
<verse>
जपान्ते कवचं दिव्यं पठेन्नित्यं नियन्त्रितः ।
 

सर्वान् कामान् समासाद्य गणेशस्य प्रियो भवेत् ॥ ३२ ॥
</verse>
<trailer>
॥ इति <add>[ श्रीरुद्रयामले श्रीपार्वतीपरमेश्वरसंवादे ]
</add>
श्री महागणपतिकवचं समाप्तम् ॥
 
</trailer>
<title>
19. ॥ श्रीविनायकस्तवराजः ॥
 
</title>
<verse>
बीजापूर देक्षुकार्मुक' <ref>3</ref>रुजा चक्राब्जपाशोत्पल-

व्रीह्यग्रस्वविषाणरत्न कलशप्रोद्यत्कराम्भोरुहः ।
 

ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद् भूषया
 

विश्वोत्पत्तिविपत्तिसंस्थितिकरो '<ref>4</ref>विघ्नेश इष्टार्थदः ॥ १ ॥
 
११
 
</verse>
<footnote>
1. तिं </footnote>
<footnote>
2. यो </footnote>
<footnote>
3. लसच्चक्राब्जं </footnote>
<footnote>
4. विघ्नोविशिष्टार्थदः
 
</footnote>
</page>