Stotrarnava /57
This page has not been fully proofread.
श्रीविनायकस्तवराजः
इन्द्रोऽमरावतीं लब्ध्वा पठनात् कवचस्य तु ।
देवनामाधिपत्यं वै तथावाप महेश्वरि ॥ २२ ॥
सृष्टिं वितनुते ब्रह्मा स्थितिं वितनुते हरिः ।
संहारं तनुते रुद्रोऽप्यहमेव न संशयः ॥ २३ ॥
भजेद्विलिख्य कवचं धारयेद्भक्तितः परम् ।
यं यं चिन्तयते लोके तं तं प्राप्नोति सर्वदा ॥ २४ ॥
गन्धर्वो गायते धीरः सर्वलोकवशंकरः ।
कामतुल्योऽपि नारीणां योगी योगपतिर्यथा ॥ २५ ॥
न देयं पर शिष्येभ्यो देयं शिष्येभ्य एव च ।
अप्रशिष्याय दुष्टाय कृतघ्नाय दुरात्मने ॥ २६ ॥
भक्तिश्रद्धाविहीनाय पर निन्दापराय च ।
यो ददाति निषिद्धेभ्यो कवचं परमाद्भुतम् ॥ २७ ॥
तस्य नश्यन्ति देवेशि पुत्रायुः कोर्तिसम्पदः ।
शिष्याय भक्तियुक्ताय गुरुभक्तिरताय [च] ॥ २८ ॥
शान्ताय विष्णुभक्ताय शिवपूजापराय च ।
देव्यर्चनपरायास्मै स्वजनाय महात्मने ॥ २९ ॥
ददाति चेद्यत् कवचं शीघ्रसिद्धिप्रदं भवेत् ।
एतत् कवचमज्ञात्वा यो जपेच्च गणाधिपम् ॥ ३० ॥
दारिद्यं परमं लब्ध्वा सोऽचिरान्मृत्युमाप्नुयात् ।
ज्ञात्वा तु कवचं यो वै जपेद्भक्तिपुरःसरम् ॥ ३१ ॥
जपान्ते कवचं दिव्यं पठेन्नित्यं नियन्त्रितः ।
सर्वान् कामान् समासाद्य गणेशस्य प्रियो भवेत् ॥ ३२ ॥
॥ इति [ श्रीरुद्रयामले श्रीपार्वतीपरमेश्वरसंवादे ]
श्री महागणपतिकवचं समाप्तम् ॥
19. ॥ श्रीविनायकस्तवराजः ॥
बीजापूर देक्षुकार्मुक' रुजा चक्राब्जपाशोत्पल-
व्रीह्यग्रस्वविषाणरत्न कलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद् भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो 'विघ्नेश इष्टार्थदः ॥ १ ॥
११
1. तिं 2. यो 3. लसच्चक्राब्जं 4. विघ्नोविशिष्टार्थदः