Stotrarnava /156
This page has been fully proofread once and needs a second look.
+:
:
<ignore>११०
<verse>विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥ २ ॥
<verse>विश्वेश्वरं नित्यमनन्तरूपं
बालेन्दुचूडं सुरवन्द्यपादम् ।
पतिं पशूनां हृदि सनिविष्टं
चिदम्बरेशं हृदि भावयामि ॥ ३ ॥
<verse>विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं सुरवैरिशत्रुम् ।
कुबेरमित्रं जगदेकपात्रं
चिदम्बरेशं हृदि भावयामि ॥ ४ ॥
<verse>कैलासवासं जगतामधीशं
मुरारिमित्रं पुरुहूतवन्द्यम् ।
.
महेशमूर्
चिदम्बरेशं हृदि भावयामि ॥ ५ ॥
<verse>कर्पूरगात्रं कमनीयपात्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पशत्रुं कमलेशमित्
चिदम्बरेशं हृदि भावयामि ॥ ६ ॥
<verse>त्वमेव बन्धुस्त्वयि भाति सर्वं
अनेकरूपं परमन्त्रमेकम् ।
पिनाकपाणिं भयनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥ ७ ॥
<verse>कृपासमुद्रं सुमुखं त्रिणेत्रं
जटाधरं पार्वतिवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥ ८ ॥
<trailer>॥ इति श्रीचिदम्बरेशस्तुतिः सम्पूर्णा ॥
</page>