Proofing

2026-04-02 21:26:47 by ambuda-bot

This page has not been fully proofread.

श्रीचिदम्बरनटनम्
 
मायामरुद्भिरभितः क्षुभितो भवामि
ब्रह्माण्डखण्डनवबुद्बुदजाललोलः ।
संहृत्य सर्वमथ शक्तितरङ्गडोला-
 
केलिक्षयादहमसौ स्तिमितश्चिदब्धिः ॥ ६ ॥
लोकास्त्रिविष्टपमुखा निरयावसाना
 
ये सर्व एव त [इ] मे मम केलिरेखाः ।
नैवाहमेषु मम केतुवशं वदन्ति
 
मद्धानि नार्कशशिनौ न च पावकोऽयम् ॥ ७ ॥
 
यस्यां वसामि च स किं ननु नैव काशी
 
विश्वेश्वरः स च यमीशधिया स्पृशामि ।
यद्व्याहरामि सकलं प्रणवस्तदेव
 
मुक्ताश्च ते सहचरन्ति मया क्षणं ये ॥ ८ ॥
 
निर्बन्धनोऽपि निजरूपमवेक्ष्य बद्धो
 
मुच्येत् किलैतदथ वीक्ष्य च नित्यमुक्तः ।
धामत्रयातिचकितो गतिभोक्तृभोग्य-
 
भोगान्वयोऽस्मि स परः शिव एव सोऽहम् ॥ ९॥
 
इत्थं भवाब्धिमतिलङ्घ्य भवत्प्रसादात्
 
धन्यस्य मे यदुदभूच्छिवसामरस्यम् ।
आपिण्डविच्युति गुरो सुखमेतदीयं
 
दिव्यं त्वदङ्घ्रिसरसीरुहसात्करोति ॥ १० ॥
 
॥ इति श्रीविद्याधर चक्रवर्तिरचिता दशश्लोकी सम्पूर्णा ॥
 
.
 
३४. ॥ अथ श्रीचिदम्बरनटनम् ॥
 
१०७
 
सदचितमुदचितनिकुचितपदार्पितंजलञ्झलितमज्जुकटकं
पतञ्च लिह गञ्चनमचञ्चलपदं जननभञ्जनकरं गलरवम् ।
कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बनकरं
चिदम्बुधिमणि बुधहृदम्बुजरविं वरचिदम्बरनटं हृदि भजे ॥ १ ॥
 
हरं त्रिपुर [भञ्जनमनन्तकृत ] कङ्कणमखण्डद्यमन्तरहितं
विरिञ्चिसुरसंहति पुरन्दरविचिन्तितपदं तरुणचन्द्रमकुटम् ।
परं परमखण्डितयमं भसितमण्डिततनुं मदनभञ्जनकरं
 
चिरन्तनमिमं प्रणतसञ्चितनिधिं वरचिदम्बरनदं हृदि भजे ॥ २ ॥