Proofing

2026-04-26 05:12:28 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>१०६ श्रीशिवस्तोत्रेषु</ignore>
<verse>श्रीलक्ष्मीशविरिञ्चिपूजितपदं शुंभत्त्रिशूलायुधं
श्रीमद्भृङ्गिकुमारनन्दिगणपश्रीवीरभद्रादिभिः ।
सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा
श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८ ॥</verse>
<verse>श्रीकोप्पराजकुलवार्धिनिशाकरेण
स्तोत्रं कृतं जगति सुब्बयनामभाजा-
गस्त्येश्वरस्य निजभक्तजनावनस्य
यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९ ॥</verse>
<trailer text="32_END">॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥</trailer>
<footnote text="33_START">३३. ॥ अथ श्री दशश्लोकी ॥</footnote>
<verse>यद्यत्प्रसादविमुखेन पुरा न लब्धं
लब्धं यदद्य च गुरो भवतः प्रसादात् ।
विज्ञापयामि तदिदं कुतुकातिरेक-
संप्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १ ॥</verse>
<verse>न त्वां स्मरामि न भजामि यजामि नान्त-
र्नो वा बहिर्न च शिवं न च दैवमन्यत् ।
नाहं भवामि न च नाहमहं भवामि
किं वा भवामि तदहं न हि वक्तुमीशे ॥ २ ॥</verse>
<verse>साक्षादहं स परमः शिव एव जातो
जातोऽधुना स परमोऽपि शिवोऽहमेव ।
आवां पुरा चिरमभूव तमः प्रकाश-
<ellipsis> . . .</ellipsis> परस्परयु <ellipsis>. . . .</ellipsis> पयसे इवाद्य ॥ ३ ॥</verse>
<verse>मत्तस्तदेतदखिलं जगदाविरस्ति
मत्तश्च जीवति लयं च <delete>तथा</delete> <add>[तथैव]</add> मत्तः ।
मत्तः स्थिरो भवति मुक्तिमुपैति मत्तो
मत्तो न चैतदमुतोऽपि च नाहमन्यः ॥ ४ ॥</verse>
<verse>आधारये क्षितिरहं सततं पयोऽहं
संप्लावये परिपचामि च पावकोऽहम् ।
आन्दोलयामि पवनोऽहमिहावकाशं
मुञ्चामि चाम्बरमहं स्थितये ममैव ॥ ५ ॥</verse>
</page>