Proofing

2026-04-24 06:12:49 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०६
 
श्रीशिवस्तोत्रेषु
 
</ignore>
<verse>
श्रीलक्ष्मीशविरिश्ञ्चिपूजितपदं शुशुंभत्त्रिशूलायुधं

श्रीमद्भृङ्गिकुमारनन्दिगणप श्रीवीरभद्रादिभिः ।

सर्वैर्भक्तियुतैर्महागणवरैः संसेव्यमानं सदा
 

श्रीगुण्टूरिपुराधिवासमतुलागस्त्येशलिङ्गं भजे ॥ ८ ॥
 
</verse>
<verse>
श्रीकोप्पराजकुलवार्धिनिशाकरेण
 

स्तोत्रं कृतं जगति सुब्बयनामभाजा-

गस्त्येश्वरस्य निजभक्तजनावनस्य
 

यो वै पठेल्लभति सोऽपि सदा विमुक्तिम् ॥ ९ ॥
</verse>
<trailer text="32_END">
॥ इति श्रीअगस्त्येशलिङ्गाष्टकं सम्पूर्णम् ॥
 
</trailer>
<footnote text="33_START">
३३. ॥ अथ श्री दशश्लोकी ॥
 
</footnote>
<verse>
यद्यत्प्रसादविमुखेन पुरा न लब्धं
 

लब्धं यदद्य च गुरो भवतः प्रसादात् ।

विज्ञापयामि तदिदं कुतुकातिरेक-
 

संप्रेरितः परशिवाद्वयबोधनाख्यम् ॥ १ ॥
 
</verse>
<verse>
न त्वां स्मरामि न भजामि यजामि नान्त-

र्नो
वा बहिर्न च शिवं न च दैवमन्यत् ।

नाहं भवामि न च नाहमहं भवामि
 

किं वा भवामि तदहं न हि वक्तुमीशे ॥ २ ॥
 
</verse>
<verse>
साक्षादहं स परमः शिव एव जातो

जातोऽधुना स परमोऽपि शिवोऽहमेव ।
 

आवां पुरा चिरमभूव तमः प्रकाश-
 


 
"
 
"
 
. . . परस्परयु .
 
. .
 
. पयसे इवाद्य ॥ ३ ॥
 
</verse>
<verse>
मत्तस्तदेतदखिलं जगदाविरस्ति
 

मत्तश्च जीवति लयं च <delete>तथा </delete> <add>[ तथैव ]</add> मत्तः ।

मत्तः स्थिरो भवति मुक्तिमुपैति मत्तो
 

मत्तो न चैतद्मुतोऽपि च नाहमन्यः ॥ ४ ॥
 
</verse>
<verse>
आधारये क्षितिरहं सततं पयोऽहं
 

संप्लावये परिपचामि च पावकोऽहम् ।

आन्दोलयामि पवनोऽहमिहावकाशं
 

मुखाञ्चामि चाम्बरमहं स्थितये ममैव ॥ ५ ॥
 
</verse>
</page>